समुपेत्य ततः सीतामुक्तवान्पवनाऽऽत्मजः । दिष्ट्या वर्धस्व वैदेहि ! हतस्त्रैलोक्य-कण्टकः ॥
अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः । रक्षिकास्तव राक्षस्यो गृहाणैतासु मत्सरम् ॥
तृण्हानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः । हिंस्रा भवतु ते बुद्धिरेतास्कुरु निष्ठुरम् ॥
पश्चिमं करवामैतत्प्रियं देवि ! वयं तव" । ततः प्रोक्तवती सीता वानरं करुणाऽऽशया ॥
"उपशाम्यतु ते बुद्धिः पिण्ड-निर्वेश-कारिषु । लघु-सत्वेषु दोषोऽयं यत्-कृतो-निहतोऽसकौ ॥
न हि प्रेष्य-वधं घोरं करवान्यस्तु ते मतिः ।एधि कार्य-करस्त्वं मे गत्वा प्रवद राघवम् ॥
"दिदृक्षुर्मैथिली राम ! पश्यतु त्वाऽविलम्बितम्"। । तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान् ॥
"उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन !" । क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम् ॥
उक्तवान्राघवः-"सीतामानयाऽलंकृतामिति।" । गत्वा प्रणम्य तेनोक्ता मैथिली मधुरं वचः ॥
"जहीहि शोकां वैदेहि ! प्रीतये धेहि मानसम् । रावणे जहिहि द्वेषां जहाहि प्रमदा-वनम् ॥
स्नाह्यनुलिम्प धूपाय निवस्स्वाऽऽविध्य च स्रजम् । रत्नान्याऽऽमुञ्च संदीप्ते हविर्जुहुधि पावके ॥
अद्धि त्वं पञ्च-गव्यं च छिन्धि संरोध-जं तमः ।आरोह शिबिकां हैमीं द्विषां जहि मनो-रथान् ॥
तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम् । भवतादधियुक्ता त्वमत ऊर्ध्वं स्व-वेश्मनि ॥
दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे । दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम् ॥
अयं नियोगः पत्युस्ते कार्या नाऽत्र विचारणा । भूषयाऽङ्गं प्रमाणं चेद्रामं गन्तुं यतस्व च ॥
मुदा संयुहि काकुत्स्थं स्वयं चाऽऽप्नूहि सम्पदम् ।उपेह्यूर्ध्वं मुहूर्तात्त्वं देवि ! राघव-सन्निधिम् ॥
ऊर्ध्वं मुहूर्तादह्नोऽङ्ग ! स्वामिनी स्म भव क्षितेः । राज-पत्नी-नियोग-स्थमनुशाधि पुरी-जनम् ॥
उत्तिष्ठस्व मते पत्युर्यतस्वाऽलङ्कृतौ तथा । प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं मही-पतिम्।" ॥
अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा । ममारूढवती यानं पट्टांऽशुक-वृताऽऽनना ॥
लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला । साऽस्रा गत्वाऽन्तिकं पत्युर्दीना रुदितवत्यसौ ॥
प्राप्त-चारित्र्य-सन्देहस्ततस्तामुक्तवान्नृपः ।इच्छामे-"नाऽऽददे सीते ! त्वामहं गम्यतामतः" ॥
रावणाऽङ्क-परिश्लिष्टा त्वं हृल्-लेख-करी मम । मतिं बधान सुग्रीवे राक्षसेन्द्रं गृहाण वा ॥
अशान भरताद्भोगान्लक्ष्मणं प्रवृणीष्व वा । कामाद्वा याहि मुच्यन्तामाशा राम-निबन्धनाः ॥
क्व च ख्यातो रघोर्वंशः क्व तं पर-गृहोषिता ।अन्यस्मै हृदयं देहि नाऽनभीष्टे घटामहे ॥
यथेष्टं चर वैदेहि ! पन्थानः सन्तु ते शिवाः । कामास्तेऽन्यत्र तायन्तां विशङ्कां त्यज मद्-गताम् ॥
ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम् । "स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम् ॥
दैवाद्बिभीहि काकुत्स्थ ! जिह्रीहि त्वं तथा जनात् । मिथ्या मामभिसंक्रुध्य- न्न-वशां शत्रुणा हृताम् ॥
चेतसस्त्वयि वृत्तिर्मे शरीरं रक्षसा हृतम् । विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः ॥
त्वं पुनीहि पुनीहीति पुनन्वायो ! जगत्त्रयम् । चरन्देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम् ॥
खमट द्यामटाऽटोर्वीमित्यटन्त्योऽति-पावनाः । यूयमापो ! विजानीत मनो-वृत्तिं शुभां मम ॥
जगन्ति धत्स्व धत्स्वेति दधती त्वं वसुन्धरे ! ।अवेहि मम चारित्रं नक्तं-दिवम-विच्युतम् ॥
रसान्संहर दीप्यस्व ध्वान्तं जहि नभो भ्रम ।इतीहमानस्तिग्मांऽशो ! वृत्तं ज्ञातुं घटस्व मे ॥
स्वर्गे विद्यस्व भुव्याऽऽस्व भुजङ्ग-निलये भव ।एवं वसन्ममाऽऽकाश ! संबुध्यस्व कृताऽकृतम् ॥
चितां कुरु च सौमित्रे ! व्यसनस्याऽस्य भेषजम् । रामस्तुष्यतु मे वाऽद्य पापां प्लुष्णातु वाऽनलः ॥
राघवस्य मतेनाऽथ लक्ष्मणेनाऽऽचितां चिताम् । दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः ॥
प्रवपाणि वपुर्वह्नौ रासाऽहं शाङ्किता त्वया । सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः ॥
मां दुष्टां ज्वलित-वपुः प्लुषाण वह्ने ! संरक्ष क्षत-मलिनां सुहृद्यथा वा ।एषाऽहं क्रतुषु वसोर्यथाऽऽज्य-धारा त्वां प्राप्ता विधि-वदुदीर्ण-दीप्ति-मालम् ॥