ततः प्ररुदितो राजा रक्षसां हत-बान्धवः । "किं करिष्यामि राज्येन सीतया किं करिष्यते ॥
अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम्। । ह्रेपयिष्यति कः शत्रून्केन जायिष्यते यमः ॥
अतिकायाद्विना पाश्यं को वा छेत्स्यति वारुणम् । रावणं मंस्यते को वा स्वयम्भूः कस्य तोक्ष्यति ॥
श्लाघिष्ये केन को बन्धून्नेष्यत्युन्नतिमुन्नतः । कः प्रेष्यति पित्न्काले कृत्वा कित्थष्यते न कः ॥
उद्यंस्यति हरिर्वज्रं विचरिष्यति निर्-भयः । भोक्ष्यते यज्ञ-भागांश्च शूर-मानं च वक्ष्यति ॥
रविस्तप्स्यति निः-शङ्कं वास्यत्यनियतं मरुत् । निर्वर्त्स्यत्यृतु-संघातः स्वेच्छयेन्दुरुदेष्यति ॥
तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः ।अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा ॥
अन्मीलिष्यति चक्षुर्मे वृथा यद्विनयाऽऽगतम् ।आज्ञा-लाभोन्मुखं नम्रं न द्रक्ष्यति नरान्तकम् ॥
धिङ्मां त्रिशिरसा नाऽहं सन्दर्शिष्येऽद्य यत्पुनः । घानिष्यन्ते द्विषः केन तस्मिन्पञ्चत्वमागते ॥
शत्रुभिर्निहते मत्ते द्रक्ष्येऽहं संयुगे सुखम् । युद्धोन्मत्ताद्विना शत्रून्समास्कन्त्स्यति को रणे ॥
आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-क्रतुः । प्रकल्प्स्यति च तस्याऽर्थो निकुम्बे दुर्हणे हते ॥
कल्पिष्यते हरेः प्रीतिर्लङ्का चोपहनिष्यते । देवान्तक ! त्वया त्यक्तो रिपोर्यास्यामि वश्यताम् ॥
मरिष्यामि विजेष्ये वा हताश्चेत्तनया मम । हनिष्यामि रिपूंस्तूर्णं न जीविष्यामि दुःखितः ॥
स्मेष्यन्ते मुनयो देवाः कथयिष्यन्ति चाऽनिशम् । "दश-ग्रीवस्य दुर्-नीतेर्विनष्टं रक्षसां कुलम्।" ॥
केन सम्भावितं तातकुम्भकर्णस्य राघवः । रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति ॥
पतिष्यति क्षितौ भानुः पृथिवी तोलयिष्यते। । नभस्वान्भङ्क्ष्यते व्योम मुष्टिभिस्ताडयिष्यते ॥
इन्द्रोः स्यन्दिष्यते वह्निः समुच्चोक्ष्यति सागरः । जलं धक्ष्यति तिग्मांशोः स्यन्त्यन्ति तमसां चयाः ॥
कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते । संभावितानि नैतानि कदाचित्केनचिज्जने ॥
कुम्भकर्णे हते लङ्का- मारोक्ष्यन्ति प्लवङ्गमाः । दङ्क्ष्यन्ति राक्षसान्दृप्ता भङ्क्ष्यन्ति च ममाऽऽश्रमान् ॥
चर्त्स्यन्ति बाल-वृद्धांश्च नर्त्स्यन्ति च मुदा युताः । तेन राक्षस-मुख्येन विना तान्को निरोत्स्यति ॥
अमर्षो मे परः सीतां राघवः कामयिष्यते । च्युत-राज्यात्सुखं तस्मात्किं किलाऽसाववाप्स्यति ॥
मारयिष्यामि वैदेहीं खादयिश्यामि राक्षसैः । भूमौ वा निखनिष्यामि विध्वंसस्याऽस्य कारणम् ॥
नाऽनुरोत्स्ये जगल्-लक्ष्मीं घटिष्ये जीवितुं न वा । न रंस्ये विषयैः शून्ये भवने बान्धवैरहम् ॥
मोदिष्ये कस्य सौख्येऽहं को मे मोदिष्यते सुखे ।आदेयाः किंकृते भोगाः कुम्भकऋण ! त्वया विना ॥
याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः । ताः किं मन्यु-क्षताऽऽभोगा न विपत्सु विपत्तयः ॥
"विनङ्क्ष्यति पुरी क्षिप्रं तूर्णमेष्यन्ति वानराः ।अ-सन्धित्सोस्तवे"त्येतद्विभीषण-सुभाषितम् ॥
"अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम् । संयोत्स्यामह"इत्येतत्प्रहस्तेन च भाषितम् ॥
मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम् । योधयिष्यति संग्रामे दिव्याऽस्त्र-रथ-दुर्जयम् ॥
सन्नत्स्याम्यथवा योद्धुं न कोष्ये सत्त्व-हीन-वत् ।अद्य तप्र्स्यन्ति मांसाऽदा भूः पास्यत्यरि-शोणितम् ॥
आकर्क्ष्यामि यशः शत्रूनपनेष्यामि कर्मणा ।अनुभाविष्यते शोको मैथिल्याऽद्य पति-क्षयात् ॥