Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 5

Kāṇḍa 3 Sūkta 5

काण्डम् 3 • सूक्तम् 5

Kāṇḍa 3 Sūkta 5 of the Shaunaka Saṁhitā of Atharvaveda with 8 mantras.

Total: 8 Verses • Citations: AV 3.5.1–8 • 2 Lexicon Terms
राष्ट्रस्य राजा राजकृतश्च
/
१-८ अथर्वा। सोमः। १ पुरोऽनुष्टुप् त्रिष्टुप्, २-३, ५-७ अनुष्टुप्, ४ त्रिष्टुप्, ८ विराडुरोबृहती।
आयम॑गन् पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न्।
ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन्
मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद् र॒यिम्।
अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः
यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम्।
तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे
सोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः ।
तं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय
आ मा॑रुक्षत् पर्णम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये ।
यथा॒हमु॑त्त॒रोऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑
ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑ ।
उ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जना॑न्
ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्यऽश्च॒ ये।
उ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जनान्
प॒र्णोऽसि तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑ ।
सं॒व॒त्स॒रस्य॒ तेज॑सा॒ तेन॒ बध्नामि त्वा मणे
← Previous (Ch. 75) Full Table of Contents Next (Ch. 77) →