Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 2

Kāṇḍa 3 Sūkta 2

काण्डम् 3 • सूक्तम् 2

Kāṇḍa 3 Sūkta 2 of the Shaunaka Saṁhitā of Atharvaveda with 6 mantras.

Total: 6 Verses • Citations: AV 3.2.1–6 • 2 Lexicon Terms
शत्रुसेनासंमोहनम्।
१-६ अथर्वा। सेनामोहनम्, १-२ अग्निः, ३-४ इन्द्रः, ५ द्यौः, ६ मरुतः। त्रिष्टुप्, २-४ अनुष्टुप्।
अ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।
स चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः
अ॒यम॒ग्निर॑मूमुह॒द् यानि॑ चि॒त्तानि॑ वो हृ॒दि।
वि वो॑ धम॒त्वोक॑सः॒ प्र वो॑ धमतु स॒र्वतः॑
इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर ।
अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय
व्याऽकूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत ।
अथो॒ यद॒द्यैषां॑ हृदि तदे॑षां॒ परि॒ निर्ज॑हि
अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।
अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न्
अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒स्मा॑नैत्य॒भ्योज॑सा॒ स्पर्ध॑माना ।
तां वि॑ध्यत॒ तम॒साप॑व्रतेन॒ यथै॑षाम॒न्यो अ॒न्यं न जा॒नात्
← Previous (Ch. 72) Full Table of Contents Next (Ch. 74) →