Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 1

Kāṇḍa 3 Sūkta 1

काण्डम् 3 • सूक्तम् 1

Kāṇḍa 3 Sūkta 1 of the Shaunaka Saṁhitā of Atharvaveda with 6 mantras.

Total: 6 Verses • Citations: AV 3.1.1–6 • 2 Lexicon Terms
शत्रुसेनासंमोहनम्।
१-६ अथर्वा। सेनामोहनम्, १ अग्निः, २ मरुतः, ३-६ इन्द्रः। त्रिष्टुप्,
२ विराड्गर्भा भुरिक्, ३-६ अनुष्टुप्, ५ विराट् पुरउष्णिक्।
अ॒ग्निर्नः॒ शत्रू॒न् प्रत्ये॑तु वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम्।
स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः
यू॒यमु॒ग्रा म॑रुत ई॒दृशे॑ स्था॒भि प्रेत॑ मृ॒णत॒ सह॑ध्वम्।
अमी॑मृण॒न् वस॑वो नाथि॒ता इ॒मे अ॒ग्निर्ह्येऽषां दू॒तः प्र॒त्येतु॑ वि॒द्वान्
अ॒मि॒त्र॒से॒नां॑ मघवन्न॒स्मान् छ॑त्रूय॒तीम॒भि।
यु॒वं तानि॑न्द्र वृत्रहन्न॒ग्निश्च॑ दहतं॒ प्रति॑
प्रसू॑त इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने॑तु॒ शत्रू॑न्।
ज॒हि प्र॒तीचो॑ अ॒नूचः॒ परा॑चो॒ विष्व॑क् स॒त्यं कृ॑णुहि चि॒त्तमे॑षाम्
इन्द्र॒ सेनां॑ मोहया॒मित्रा॑णाम्।
अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय
इन्द्रः॒ सेनां॑ मोहयतु म॒रुतो॑ घ्न॒न्त्वोज॑सा ।
चक्षूं॑स्य॒ग्निरा द॑त्तां॒ पुन॑रेतु॒ परा॑जिता
← Previous (Ch. 71) Full Table of Contents Next (Ch. 73) →