Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 29

Kāṇḍa 2 Sūkta 29

काण्डम् 2 • सूक्तम् 29

Kāṇḍa 2 Sūkta 29 of the Shaunaka Saṁhitā of Atharvaveda with 7 mantras.

Total: 7 Verses • Citations: AV 2.29.1–7 • 2 Lexicon Terms
दीर्घायुष्यम्।
१-७ अथर्वा। १ अग्निः, सूर्यः, बृहस्पतिः, २ जातवेदाः, सविता, ३ इन्द्रः,
४-५ द्यावापृथिवी, विश्वे देवाः, मरुतः, आपः, ६ अश्विनौ, ७ इन्द्रः।
त्रिष्टुप्, १ अनुष्टुप्, ४ पराबृहती निचृत्प्रस्तारपङ्क्तिः।
पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॒३ बले॑ ।
आ॒यु॒ष्यऽम॒स्मा अ॒ग्निः सूर्यो वर्च॒ आ धा॒द् बृह॒स्पतिः॑
आयु॑र॒स्मै धे॑हि जातवेदः प्रजां त्व॑ष्टरधि॒निधे॑ह्य॒स्मै।
रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॑वाति श॒रद॒स्तवा॒यम्
आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ ।
जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न्
इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो न॒ आग॑न्।
ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत्
ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्।
ऊर्ज॑म॒स्मै द्यावा॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑
शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑ ।
स॒वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम्
इन्द्र॑ ए॒तां स॑सृजे विद्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा।
तया॒ त्वं जी॑व श॒रदः॑ सु॒वर्चा॒ मा त॒ आ सु॑स्रोद् भि॒षज॑स्ते अक्रन्
← Previous (Ch. 63) Full Table of Contents Next (Ch. 65) →