वि॒षं प्र॒यस्य॑न्ती त॒क्मा प्रय॑स्ता
अ॒घं प॒च्यमा॑ना दु॒ष्वप्न्यं॑ प॒क्वा
मू॒ल॒बर्ह॑णी पर्याक्रि॒यमा॑णा॒ क्षितिः॑ प॒र्याकृ॑ता
असं॑ज्ञा ग॒न्धेन॒ शुगु॑द्ध्रि॒यमा॑णाशीवि॒ष उद्धृ॑ता
अभू॑तिरुपह्रि॒यमा॑णा॒ परा॑भूति॒रुप॑हृता
श॒र्व क्रु॒द्धः पि॒श्यमा॑ना॒ शिमि॑दा पिशि॒ता
अव॑र्तिर॒श्यमा॑ना॒ निरृ॑तिरशि॒ता
अ॒शि॒ता लो॒काच्छि॑नत्ति ब्रह्मग॒वी ब्र॑ह्म॒ज्यम॒स्माच्चा॒मुष्मा॑च्च
(5)
(३९-४६) ३९ साम्नी पङ्क्तिः, ४० याजुष्यनुष्टुप्, ४१, ४६ भुरिक् साम्न्यनुष्टुप्, ४२ आसुरी बृहती,
४३ साम्नी बृहती, ४४ पिपीलिकमध्याऽनुष्टुप्, ४५ आर्ची बृहती।
तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम्
अ॒स्व॒गता॒ परि॑ह्णुता
अ॒ग्निः क्र॒व्याद् भू॒त्वा ब्र॑ह्मग॒वी ब्र॑ह्म॒ज्यं प्र॒विश्या॑त्ति
सर्वा॒स्याङ्गा॒ पर्वा॒ मूला॑नि वृश्चति
छि॒नत्त्य॑स्य पितृब॒न्धु परा॑ भावयति मातृब॒न्धु
वि॒वा॒हां ज्ञा॒तीन्त्सर्वा॒नपि॑ क्षापयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑ क्ष॒त्रिये॒णापु॑नर्दीयमाना
अ॒वा॒स्तुमे॑न॒मस्व॑ग॒मप्र॑जसं करोत्यपरापर॒णो भ॑वति क्षी॒यते॑
य ए॒वं वि॒दुषो॑ ब्राह्म॒णस्य॑ क्ष॒त्रियो॒ गामा॑द॒त्ते
(6)
(४७-६१) ४७, ४९, ५१-५३, ५७-५९, ६१ प्राजापत्याऽनुष्टुप्, ४८ आर्च्यनुष्टुप्, ५० साम्नी बृहती,
५४-५५ प्राजापत्योष्णिक्, ५६ आसुरी गायत्री, ६० गायत्री।
क्षि॒प्रं वै तस्या॒हन॑ने॒ गृध्राः॑ कुर्वत ऐल॒बम्
क्षि॒प्रं वै तस्या॒दह॑नं॒ परि॑ नृत्यन्ति के॒शनी॑राघ्ना॒नाः पा॒णिनोर॑सि कुर्वा॒णाः पा॒पमै॑ल॒बम्
क्षि॒प्रं वै तस्य॒ वास्तु॑षु॒ वृकाः॑ कुर्वत ऐल॒बम्
क्षि॒प्रं वै तस्य॑ पृच्छन्ति॒ यत् तदासी॑३दि॒दं नु ता३दिति॑
छि॒न्ध्या च्छि॑न्धि॒ प्र छि॒न्ध्यपि॑ क्षापय क्षा॒पय॑
आ॒ददा॑नमाङ्गिरसि ब्रह्म॒ज्यमुप॑ दासय
वै॒श्व॒दे॒वी ह्यु॑१च्यसे॑ कृ॒त्या कूल्ब॑ज॒मावृ॑ता
ओष॑न्ती स॒मोष॑न्ती॒ ब्रह्म॑णो॒ वज्रः॑
क्षु॒रप॑विर्मृ॒त्युर्भू॒त्वा वि धा॑व॒ त्वम्
आ द॑त्से जिन॒तां वर्च॑ इ॒ष्टं पू॒र्तं चा॒शिषः॑
आ॒दाय॑ जी॒तं जी॒ताय॑ लो॒के॒३ऽमुष्मि॒न् प्र य॑च्छसि
अघ्न्ये॑ पद॒वीर्भ॑व ब्राह्म॒णस्या॒भिश॑स्त्या
मे॒निः श॑र॒व्याऽ भवा॒घाद॒घवि॑षा भव
अघ्न्ये॒ प्र शिरो॑ जहि ब्रह्म॒ज्यस्य॑ कृ॒ताग॑सो देवपी॒योर॑रा॒धसः॑