Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 12 (Kāṇḍa 12) • Sūkta 4

Kāṇḍa 12 Sūkta 4

काण्डम् 12 • सूक्तम् 4

Kāṇḍa 12 Sūkta 4 of the Shaunaka Saṁhitā of Atharvaveda with 53 mantras.

Total: 53 Verses • Citations: AV 12.4.1–53 • 2 Lexicon Terms • Page 1 of 2 (Verses 30 shown)
वशा गौः।
१-५३ कश्यपः। वशा। अनुष्टुप्, ७ भुरिक्, २० विराट्, ३१ उष्णिग्बृहतीगर्भा, ४२ बृहतीगर्भा।
ददा॒मीत्ये॒व ब्रू॑या॒दनु॑ चैना॒मभु॑त्सत ।
व॒शां ब्र॒ह्मभ्यो॒ याच॑द्भ्य॒स्तत् प्र॒जाव॒दप॑त्यवत्
प्र॒जया॒ स वि क्री॑णीते प॒शुभि॒श्चोप॑ दस्यति ।
य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति
कू॒टया॑स्य॒ सं शी॑र्यन्ते श्लो॒णया॑ का॒टम॑र्दति ।
ब॒ण्डया॑ दह्यन्ते गृ॒हाः का॒णया॑ दीयते॒ स्वम्
वि॒लो॒हि॒तो अ॑धि॒ष्ठाना॑च्छ॒क्नो वि॑न्दति॒ गोप॑तिम्।
तथा॑ व॒शायाः॒ संवि॑द्यं दुरद॒भ्ना ह्यु॑१च्यसे॑
प॒दोर॑स्या अधि॒ष्ठाना॑द् वि॒क्लिन्दु॒र्नाम॑ विन्दति ।
अ॒ना॒म॒नात् सं शी॑र्यन्ते॒ या मुखे॑नोप॒जिघ्र॑ति
यो अ॑स्याः॒ कर्णा॑वास्कु॒नोत्या स दे॒वेषु॑ वृश्चते ।
लक्ष्म॑ कुर्व॒ इति॒ मन्य॑ते॒ कनी॑यः कृणुते॒ स्वम्
यद॑स्याः॒ कस्मै॑ चि॒द् भोगा॑य॒ बाला॒न् कश्चि॑त् प्रकृ॒न्तति॑ ।
ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑
यद॑स्या गोप॑तौ स॒त्या लोम॒ ध्वाङ्क्षो॒ अजी॑हिडत्।
ततः॑ कुमा॒रा म्रि॑यन्ते॒ यक्ष्मो॑ विन्दत्यनाम॒नात्
यद॑स्याः॒ पल्पू॑लनं॒ शकृ॑द् दा॒सी स॒मस्य॑ति ।
ततोऽप॑रूपं जायते॒ तस्मा॒दव्ये॑ष्य॒देन॑सः
जाय॑माना॒भि जा॑यते दे॒वान्त्सब्रा॑ह्मणान् व॒शा।
तस्मा॑द् ब्र॒ह्मभ्यो॒ देयै॒षा तदा॑हुः॒ स्वस्य॒ गोप॑नम्
य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा।
ब्र॒ह्म॒ज्येयं॒ तद॑ब्रुव॒न् य ए॑नां निप्रिया॒यते॑
य आ॑र्षे॒येभ्यो॒ याच॑द्भ्यो दे॒वानां॒ गां न दित्स॑ति ।
आ स दे॒वेषु॑ वृश्चते ब्राह्म॒णानां॑ च म॒न्यवे॑
यो अ॑स्य॒ स्याद् व॑शाभो॒गो अ॒न्यामि॑च्छेत॒ तर्हि॒ सः ।
हिंस्ते॒ अद॑त्ता॒ पुरु॑षं याचि॒तां च॒ न दित्स॑ति
यथा॑ शेव॒धिर्निहि॑तो ब्राह्म॒णानां॒ तथा॑ व॒शा।
तामे॒तद॒च्छाय॑न्ति यस्मि॒न् कस्मिंश्च॒ जाय॑ते
स्वमे॒तद॒च्छाय॑न्ति॒ यद् व॒शां ब्रा॑ह्म॒णा अ॒भि।
यथै॑नान॒न्यस्मि॑न् जिनी॒यादे॒वास्या॑ नि॒रोध॑नम्
चरे॑दे॒वा त्रै॑हाय॒णा दवि॑ज्ञातगदा स॒ती।
व॒शां च॑ वि॒द्यान्ना॑रद ब्राह्म॒णास्तर्ह्ये॒ष्याः
य ए॑ना॒मव॑शा॒माह॑ दे॒वानां॒ निहि॑तं नि॒धिम्।
उ॒भौ तस्मै॑ भवाश॒र्वौ प॑रि॒क्रम्येषु॑मस्यतः
यो अ॑स्या॒ ऊधो॒ न वेदाथो॑ अस्या॒ स्तना॑नु॒त।
उ॒भये॑नै॒वास्मै॑ दुहे॒ दातुं॒ चे दश॑कद् व॒शाम्
दु॒र॒द॒भ्नैन॒मा श॑ये याचि॒तां च॒ न दित्स॑ति ।
नास्मै॒ कामाः॒ समृ॑ध्यन्ते॒ यामद॑त्त्वा॒ चिकी॑र्षति
दे॒वा व॒शाम॑याच॒न् मुखं॑ कृ॒त्वा ब्राह्म॑णम्।
तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येऽति॒ मानु॑षः
हेडं॑ पशू॒नां न्येऽति ब्राह्म॒णेभ्योऽद॑दद् व॒शाम्।
दे॒वानां॒ निहि॑तं भा॒गं मर्त्य॒श्चेन्नि॑प्रिया॒यते॑
यद॒न्ये श॒तं याचे॑युर्ब्राह्म॒णा गोप॑तिं व॒शाम्।
अथै॑नां दे॒वा अ॑ब्रुवन्ने॒वं ह॑ वि॒दुषो॑ व॒शा
य ए॒वं वि॒दुषेऽद॒त्त्वाथा॒न्येभ्यो॒ दद॑द् व॒शाम्।
दु॒र्गा तस्मा॑ अधि॒ष्ठाने॑ पृथि॒वी स॒हदे॑वता
दे॒वा व॒शाम॑याच॒न् यस्मि॒न्नग्रे॒ अजा॑यत ।
तामे॒तां वि॑द्या॒न्नार॑दः स॒ह दे॒वैरुदा॑जत
अ॒न॒प॒त्यमल्प॑पशुं व॒शा कृ॑णोति॒ पूरु॑षम्।
ब्रा॒ह्म॒णैश्च॑ याचि॒तामथै॑नां निप्रिया॒यते॑
अ॒ग्नीषोमा॑भ्यां॒ कामा॑य मि॒त्राय॒ वरु॑णाय च ।
तेभ्यो॑ याचन्ति ब्राह्म॒णास्तेष्वा वृ॑श्च॒तेऽद॑दत्
याव॑दस्या॒ गोप॑ति॒र्नोप॑शृणु॒यादृचः॑ स्व॒यम्।
चरे॑दस्य॒ ताव॒द् गोषु॒ नास्य॑ श्रु॒त्वा गृ॒हे व॑सेत्
यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्।
आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः
व॒शा चर॑न्ती बहु॒धा दे॒वानां॒ निहि॑तो नि॒धिः ।
आ॒विष्कृ॑णुष्व रू॒पाणि॑ य॒दा स्थाम॒ जिघां॑सति
आ॒विरा॒त्मानं॑ कृणुते य॒दा स्थाम॒ जिघांसति ।
अथो॑ ह ब्र॒ह्मभ्यो॑ व॒शा या॒ञ्च्याय॑ कृणुते॒ मनः॑
← Previous (Ch. 476) Full Table of Contents Next (Ch. 478) →