Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 8

Kāṇḍa 2 Sūkta 8

काण्डम् 2 • सूक्तम् 8

Kāṇḍa 2 Sūkta 8 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 2.8.1–5 • 2 Lexicon Terms
क्षेत्रियरोगनाशनम्।
१-५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्म नाशनम्। अनुष्टुप्, ३ पथ्यापङ्क्तिः,
४ विराट्, ५ निचृत्पथ्यापङ्क्तिः।
उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के ।
वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम्
अपे॒यं रात्र्यु॑च्छ॒त्वपो॑च्छन्त्वभि॒कृत्व॑रीः ।
वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु
ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या।
वीरुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु
नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ ।
वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु
नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्येऽभ्यः ।
नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु
← Previous (Ch. 42) Full Table of Contents Next (Ch. 44) →