Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 2

Kāṇḍa 2 Sūkta 2

काण्डम् 2 • सूक्तम् 2

Kāṇḍa 2 Sūkta 2 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 2.2.1–5 • 2 Lexicon Terms
भुवनपतिसूक्तम्।
१-५ मातृनामा। गन्धर्वाप्सरसः। त्रिष्टुप्, १ विराड् जगती, ४ त्रिष्टुपाद्विराण्नाम गायत्री, ५ भुरिगनुष्टुप्।
दि॒व्यो ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्योऽवि॒क्ष्वीड्यः॑ ।
तं त्वा॑ यौमि॒ ब्रह्म॑णा दिव्य देव॒ नम॑स्ते अस्तु दि॒वि ते॑ स॒धस्थ॑म्
दि॒वि स्पृ॒ष्टो य॑ज॒तः सूर्य॑त्वगवया॒ता हर॑सो॒ दैव्य॑स्य ।
मृ॒डाद् ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्यः सु॒शेवाः॑
अ॒न॒व॒द्याभिः॒ समु॑ जग्म आभिरप्स॒रास्वपि॑ गन्ध॒र्व आ॑सीत्।
स॒मु॒द्र आ॑सां॒ सद॑नं म आहु॒र्यतः॑ स॒द्य आ च॒ परा॑ च॒ यन्ति॑
अभ्रि॑ये॒ दिद्यु॒न्नक्ष॑त्रिये॒ या वि॒श्वाव॑सुं गन्ध॒र्वं सच॑ध्वे ।
ताभ्यो॑ वो देवी॒र्नम॒ इत् कृ॑णोमि
याः क्ल॒न्दास्तमि॑षीचयो॒ऽक्षका॑मा मनो॒मुहः॑ ।
ताभ्यो॑ गन्ध॒र्वप॑त्नीभ्योऽप्स॒राभ्यो॑ऽकरं॒ नमः॑
← Previous (Ch. 36) Full Table of Contents Next (Ch. 38) →