Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 1 (Bālakāṇḍa) • Sūkta 31

Kāṇḍa 1 Sūkta 31

काण्डम् 1 • सूक्तम् 31

Kāṇḍa 1 Sūkta 31 of the Shaunaka Saṁhitā of Atharvaveda with 4 mantras.

Total: 4 Verses • Citations: AV 1.31.1–4 • 2 Lexicon Terms
पाशमोचनम्।
१-४ ब्रह्मा। आशापालाः,(वास्तोष्पतिः)। अनुष्टुप्, ३ विराट् त्रिष्टुप्, ४ परानुष्टुप् त्रिष्टुप्।
आशा॑नामाशापा॒लेभ्य॑श्च॒तुर्भ्यो॑ अ॒मृते॑भ्यः ।
इ॒दं भू॒तस्याध्य॑क्षेभ्यो वि॒धेम॑ ह॒विषा॑ व॒यम्
य आशा॑नामाशापा॒लाश्च॒त्वार॒ स्थन॑ देवाः ।
ते नो॒ निरृ॑त्याः॒ पाशे॑भ्यो मु॒ञ्चतांह॑सो अंहसः
अस्रा॑मस्त्वा ह॒विषा॑ यजा॒म्यश्लो॑णस्त्वा घृ॒तेन॑ जुहोमि ।
य आशा॑नामाशापा॒लस्तु॒रीयो॑ दे॒वः स नः॑ सुभू॒तमेह व॑क्षत्
स्व॒स्ति मा॒त्र उ॒त पि॒त्रे नो॑ अस्तु स्व॒स्ति गोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः ।
विश्वं॑ सुभू॒तं सु॑वि॒दत्रं॑ नो अस्तु॒ ज्योगे॒व दृ॑शेम॒ सूर्य॑म्
← Previous (Ch. 30) Full Table of Contents Next (Ch. 32) →