Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 3 (Araṇyakāṇḍa) • Sūkta 9

Kāṇḍa 3 Sūkta 9

काण्डम् 3 • सूक्तम् 9

Kāṇḍa 3 Sūkta 9 of the Shaunaka Saṁhitā of Atharvaveda with 6 mantras.

Total: 6 Verses • Citations: AV 3.9.1–6 • 2 Lexicon Terms
दुःखनाशनम्।
१-६ वामदेवः। द्यावापृथिवी, देवाः। अनुष्टुप्, ४ चतुष्पदा निचृद्बृहती, ६भुरिक्।
क॒र्शफ॑स्य विश॒फस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता।
यथा॑भिच॒क्र दे॑वा॒स्तथाप॑ कृणुता॒ पुनः॑
अ॒श्रे॒ष्माणो॑ अधारय॒न् तथा॒ तन्मनु॑ना कृ॒तम्।
कृणोमि॒ वध्रि॒ विष्क॑न्धं मुष्काब॒र्हो गवा॑मिव
पि॒शङ्गे॒ सूत्रे॒ खृग॑लं॒ तदा ब॑ध्नन्ति वे॒धसः॑ ।
श्र॒व॒स्युं शुष्मं॑ काब॒वं वध्रिं॑ कृण्वन्तु ब॒न्धुरः॑
येना॑ श्रवस्यव॒श्चर॑थ दे॒वा इ॑वासुरमा॒यया॑ ।
शुनां॑ क॒पिरि॑व॒ दूष॑णो॒ बन्धु॑रा काब॒वस्य॑ च
दुष्ट्यै॒ हि त्वा॑ भ॒त्स्यामि॑ दूषयि॒ष्यामि॑ काब॒वम्।
उदा॒शवो॒ रथा॑ इव श॒पथे॑भिः सरिष्यथ
एक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑ ।
तेषां॒ त्वामग्रे॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम्
← Previous (Ch. 79) Full Table of Contents Next (Ch. 81) →