Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 9

Kāṇḍa 2 Sūkta 9

काण्डम् 2 • सूक्तम् 9

Kāṇḍa 2 Sūkta 9 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 2.9.1–5 • 2 Lexicon Terms
दीर्घायुःप्राप्तिः।
१- ५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्मनाशनम्। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः।
दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु ।
अथो॑ एनं वनस्पते जी॒वानां॒ लो॒क॑मु॑न्नय
आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात्।
अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः
अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गान्।
श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑
दे॒वास्ते॑ ची॒तिम॑विदन् ब्र॒ह्माण॑ उ॒त वी॒रुधः॑ ।
ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न् भूम्या॒मधि॑
यश्च॒कार॒ स निष्क॑र॒त् स ए॒व सुभि॑षक्तमः ।
स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द् भि॒षजा॒ शुचिः॑
← Previous (Ch. 43) Full Table of Contents Next (Ch. 45) →