Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 2 (Ayodhyākāṇḍa) • Sūkta 7

Kāṇḍa 2 Sūkta 7

काण्डम् 2 • सूक्तम् 7

Kāṇḍa 2 Sūkta 7 of the Shaunaka Saṁhitā of Atharvaveda with 5 mantras.

Total: 5 Verses • Citations: AV 2.7.1–5 • 2 Lexicon Terms
शापमोचनम्।
१-५ अथर्वा। भैषज्यं, आयुः, वनस्पतिः। अनुष्टुप्, १ भुरिक्, ४ विराडुपरिष्टाद् बृहती।
अ॒घद्वि॑ष्टा दे॒वजा॑ता वी॒रुच्छ॑पथ॒योप॑नी ।
आपो॒ मल॑मिव॒ प्राणै॑क्षी॒त् सर्वा॒न् मच्छ॒पथाँ॒ अधि॑
यश्च॑ साप॒त्नः श॒पथो॑ जा॒म्याः श॒पथ॑श्च॒ यः ।
ब्र॒ह्मा यन्म॑न्यु॒तः शपा॒त् सर्वं॒ तन्नो॑ अधस्प॒दम्
दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम्।
तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑
परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म्।
अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒षुर॒भिमा॑तयः
श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त् तेन॑ नः स॒ह।
चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि
← Previous (Ch. 41) Full Table of Contents Next (Ch. 43) →