दक्षि॑णायां त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
प्र॒तीच्यां॑ त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
उदी॑च्यां त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
ध्रु॒वायां॑ त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
ऊ॒र्ध्वायां॑ त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
ध॒र्तासि॑ ध॒रुणो॑ऽसि॒ वंस॑गोऽसि
उ॒द॒पूर॑सि मधु॒पूर॑सि वात॒पूर॑सि
इ॒तश्च॑ मा॒मुत॑श्चावतां य॒मे इ॑व॒ यत॑माने॒ यदै॒तम्।
प्र वां॑ भर॒न् मानु॑षा देव॒यन्तो॒ आ सी॑दतां॒ स्वमु॑ लो॒कं विदा॑ने
स्वास॑स्थे भवत॒मिन्द॑वे नो यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भिः ।
वि श्लोक॑ एति प॒थ्येऽव सू॒रिः शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृता॑स ए॒तत्
त्रीणि॑ प॒दानि॑ रु॒पो अन्व॑रोह॒च्चतु॑ष्पदी॒मन्वैतद् व्र॒तेन॑ ।
अ॒क्षरे॑ण॒ प्रति॑ मिमीते अ॒र्कमृ॒तस्य॒ नाभा॑व॒भि सं पु॑नाति
दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ किम॒मृतं॒ नावृ॑णीत ।
बृह॒स्पति॑र्य॒ज्ञम॑तनुत॒ ऋषिः॑ प्रि॒यां य॒मस्त॒न्व॑१मा रि॑रेच
त्वम॑ग्न ईडि॒तो जा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा।
प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑
आसी॑नासो अरु॒णीना॑मु॒पस्थे॑ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या॑य ।
पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं॑ दधात
अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः ।
अ॒त्तो ह॒वींषि॒ प्रय॑तानि ब॒र्हिषि॑ र॒यिं च॑ नः॒ सर्व॑वीरं दधात
उप॑हूता नः पि॒तरः॑ सो॒म्यासो॑ बर्हि॒ष्येऽषु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ तेऽवन्त्व॒स्मान्
ये नः॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा अ॑नूजहि॒रे सो॑मपी॒थं वसि॑ष्ठाः ।
तेभि॑र्य॒मः सं॑ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु
ये ता॑तृ॒षुर्दे॑व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः ।
आग्ने॑ याहि स॒हस्रं॑ देवव॒न्दैः स॒त्यैः क॒विभि॒र्ऋषि॑भिर्घर्म॒सद्भिः॑
ये स॒त्यासो॑ हवि॒रदो॑ हवि॒ष्पा इन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेण॑ ।
आग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाङ् परैः॒ पूर्वै॒र्ऋषि॑भिर्घर्म॒सद्भिः॑
उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा॑म्।
ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावत ए॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता॑त्
उच्छ्व॑ञ्चस्व पृथिवि॒ मा नि बा॑धथाः सूपाय॒नास्मै॑ भव सूपसर्प॒णा।
मा॒ता पु॒त्रं यथा॑ सि॒चाभ्येऽनं भूम ऊर्णुहि
उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम्।
ते गृ॒हासो॑ घृत॒श्चुतः॑ स्यो॒ना वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑
उत् ते॑ स्तभ्नामि पृथि॒वीं त्वत् परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम्।
ए॒तां स्थूणां॑ पि॒तरो॑ धारयन्ति ते॒ तत्र॑ य॒मः साद॑ना ते कृणोतु
इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः॑ प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म्।
अ॒यं यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न् दे॒वा अ॒मृता॑ मादयन्ताम्
अथ॑र्वा पू॒र्णं च॑म॒सं यमिन्द्रा॒याबि॑भर्वा॒जिनी॑वते ।
तस्मि॒न् कृणोति सुकृ॒तस्य॑ भ॒क्षं तस्मि॒निन्दुः॑ पवते विश्व॒दानी॑म्
यत् ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः ।
अ॒ग्निष्टद् वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा॑ह्म॒णां आ॑वि॒वेश॑
पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं पयः॑ ।
अ॒पां पय॑सो॒ यत् पय॒स्तेन॑ मा स॒ह शु॑म्भतु
इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं स्पृ॑शन्ताम्।
अ॒न॒श्रवो॑ अनमी॒वाः सु॒रत्ना॒ आ रो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे॑
सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने॑ष्टापू॒र्तेन॑ पर॒मे व्योऽमन्।
हि॒त्वाव॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छतां त॒न्वाऽ सु॒वर्चाः॑
ये नः॑ पि॒तुः पि॒तरो॒ ये पि॑ताम॒हा य आ॑विवि॒शुरु॒र्व॑१न्तरि॑क्षम्।
तेभ्यः॑ स्व॒राडसु॑नीतिर्नो अ॒द्य व॑थाव॒शं त॒न्वः कल्पयाति
शं ते॑ नीहा॒रो भ॑वतु॒ शं ते॑ प्रु॒ष्वाव॑ शीयताम्।
शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति ।
म॒ण्डू॒क्य॑१प्सु शं भु॑व इ॒मं स्व॑१ग्निं श॑मय