Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 5 (Sundarakāṇḍa) • Sūkta 23

Kāṇḍa 5 Sūkta 23

काण्डम् 5 • सूक्तम् 23

Kāṇḍa 5 Sūkta 23 of the Shaunaka Saṁhitā of Atharvaveda with 13 mantras.

Total: 13 Verses • Citations: AV 5.23.1–13 • 2 Lexicon Terms
क्रिमिघ्नम्।
१-१३ कण्वः। इन्द्रः। अनुष्टुप्, १३ विराट्।
ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती ।
ओतौ॑ म॒ इन्द्र॑श्चा॒ग्निश्च॒ क्रिमिं॑ जम्भयता॒मिति॑
अ॒स्येन्द्र॑ कुमा॒रस्य॒ क्रिमी॑न् धनपते जहि ।
ह॒ता विश्वा॒ अरा॑तय उ॒ग्रेण॒ वच॑सा॒ मम॑
यो अ॒क्ष्यौऽपरि॒सर्प॑ति॒ यो नासे॑ परि॒सर्प॑ति ।
द॒तां यो मध्यं॒ गच्छ॑ति॒ तं क्रिमिं॑ जम्भयामसि
सरू॑पौ॒ द्वौ विरू॑पौ॒ द्वौ कृ॒ष्णौ द्वौ रोहि॑तौ॒ द्वौ।
ब॒भ्रुश्च॑ ब॒भ्रुक॑र्णश्च॒ गृध्रः॒ कोक॑श्च॒ ते ह॒ताः
ये क्रिम॑यः शिति॒कक्षा॒ ये कृ॒ष्णाः शि॑ति॒बाह॑वः ।
ये के च॑ वि॒श्वरू॑पा॒स्तान् क्रिमी॑न् जम्भयामसि
उत् पु॒रस्ता॒त् सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा।
दृ॒ष्टांश्च॒ घ्नन्न॒दॄष्टां॑श्च॒ सर्वां॑श्च प्रमृ॒णन् क्रिमी॑न्
येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः ।
दृ॒ष्टांश्च॑ ह॒न्यतां॑ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम्
ह॒तो येवा॑षः॒ क्रिमी॑णां ह॒तो न॑दनि॒मोत।
सर्वा॒न् नि म॑ष्म॒षाक॑रं दृ॒षदा॒ खल्वाँ॑ इव
त्रि॒शी॒र्षाणं॑ त्रिक॒कुदं॒ क्रिमिं॑ सा॒रङ्ग॒मर्जु॑नम्।
शृ॒णाम्य॑स्य पृ॒ष्टीरपि॑ वृश्चामि॒ यच्छिरः॑
अ॒त्रि॒वद् वः॑ क्रिमयो हन्मि कण्व॒वज्ज॑मदग्नि॒वत्।
अ॒गस्त्य॑स्य॒ ब्रह्म॑णा॒ सं पि॑नष्म्य॒हं क्रिमी॑न्
ह॒तो राजा॒ क्रिमी॑णामु॒तैषां॑ स्थ॒पति॑र्ह॒तः ।
ह॒तो ह॒तमा॑ता॒ क्रिमि॑र्ह॒तभ्रा॑ता ह॒तस्व॑सा
ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः ।
अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः
सर्वे॑षां च॒ क्रिमी॑णां॒ सर्वा॑सां च क्रि॒मीना॑म्।
भि॒नद्म्यश्म॑ना॒ शिरो॒ दहा॑म्य॒ग्निना॒ मुख॑म्
← Previous (Ch. 164) Full Table of Contents Next (Ch. 166) →