Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 5 (Sundarakāṇḍa) • Sūkta 1

Kāṇḍa 5 Sūkta 1

काण्डम् 5 • सूक्तम् 1

Kāṇḍa 5 Sūkta 1 of the Shaunaka Saṁhitā of Atharvaveda with 9 mantras.

Total: 9 Verses • Citations: AV 5.1.1–9 • 2 Lexicon Terms
अमृतासुः।
१-९ बृहद्दिवोऽथर्वा। वरुणः। त्रिष्टुप्, ५ पराबहती त्रिष्टुप्, ७ विराट्, ९त् त्र्यवसाना षट्-पदा अत्यष्टिः।
ऋध॑ङ्मन्त्रो॒ योनिं॒ य आ॑ब॒भूवामता॑सु॒र्वर्ध॑मानः सु॒जन्मा॑ ।
अद॑ब्धासु॒र्भ्राज॑मा॒नोऽहे॑व त्रि॒तो ध॒र्ता दा॑धार॒ त्रीणि॑
आ यो धर्मा॑णि प्रथ॒मः स॒साद॒ ततो॒ वपूं॑षि कृणुषे पु॒रूणि॑ ।
धा॒स्युर्योनिं॑ प्रथ॒म आ वि॑वे॒शा यो वाच॒मनु॑दितां चि॒केत॑
यस्ते॒ शोका॑य त॒न्वंऽ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒योऽनु॒ स्वाः ।
अत्रा॑ दधेते अ॒मता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम्
प्र यदे॒ते प्र॑त॒रं पू॒र्व्यं गुः सदः॑सद आ॒तिष्ठ॑न्तो अजु॒र्यम्।
क॒विः शु॒षस्य॑ मा॒तरा॑ रिहा॒णे जा॒म्यै धुर्यं॒ पति॒मेर॑येथाम्
तदू॒ षु ते॑ म॒हत् पृ॑थुज्म॒न् नमः॑ क॒विः काव्ये॑न कृणोमि ।
यत् स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑
स॒प्त म॒र्यादाः॑ क॒वय॑स्ततक्षु॒स्तासा॒मिदेका॑म॒भ्यंऽहु॒रो गा॑त्।
आ॒योर्ह॑ स्क॒म्भ उप॑मस्य नी॒डे प॒थां वि॑स॒र्गे ध॒रुणे॑षु तस्थौ
उ॒तामृता॑सु॒र्व्रत॑ एमि कृ॒न्वन्नसु॑रा॒त्मा त॒न्व॑१स्तत् सु॒मद्गुः॑ ।
उ॒त वा॑ श॒क्रो रत्नं॒ दधा॑त्यू॒र्जया॑ वा॒ यत् सच॑ते हवि॒र्दाः
उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑ ।
दर्श॒न् नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि
अ॒र्धम॒र्धेन॒ पय॑सा पृणक्ष्य॒र्धेन॑ शुष्म वर्धसे अमुर ।
अविं॑ वृधाम श॒ग्मियं॒ सखा॑यं॒ वरु॑णं पु॒त्रमदि॑त्या इषि॒रम्।
क॒वि॒श॒स्तान्य॑स्मै॒ वपूं॑ष्यवोचाम॒ रोद॑सी सत्य॒वाचा॑
← Previous (Ch. 142) Full Table of Contents Next (Ch. 144) →