Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 12 (Kāṇḍa 12) • Sūkta 1

Kāṇḍa 12 Sūkta 1

काण्डम् 12 • सूक्तम् 1

Kāṇḍa 12 Sūkta 1 of the Shaunaka Saṁhitā of Atharvaveda with 63 mantras.

Total: 63 Verses • Citations: AV 12.1.1–63 • 2 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
यास्ते॒ प्राचीः॑ प्र॒दिशो॒ या उदी॑ची॒र्यास्ते॑ भूमे अध॒राद् याश्च॑ प॒श्चात्।
स्यो॒नास्ता मह्यं॒ चर॑ते भवन्तु॒ मा नि प॑प्तं॒ भुव॑ने शिश्रिया॒णः
मा नः॑ प॒श्चान्मा पु॒रस्ता॑न्नुदिष्ठा॒ मोत्त॒राद॑ध॒रादु॒त।
स्व॒स्ति भू॑मे नो भव॒ मा वि॑दन् परिप॒न्थिनो॒ वरी॑यो यावया व॒धम्
याव॑त् तेऽभि वि॒पश्या॑मि॒ भूमे॒ सूर्ये॑ण मे॒दिना॑ ।
ताव॑न्मे॒ चक्षु॒र्मा मे॒ष्टोत्त॑रामुत्तरां॒ समा॑म्
यच्छया॑नः प॒र्याव॑र्ते॒ दक्षि॑णं स॒व्यम॒भि भू॑मे पा॒र्श्वम् ।
उ॒त्ता॒नास्त्वा॑ प्र॒तीचीं॒ यत् पृ॒ष्टीभि॑रधि॒शेम॑हे ।
मा हिं॑सी॒स्तत्र॑ नो भूमे॒ सर्व॑स्य प्रतिशीवरि
यत् ते भूमे वि॒खना॑मि क्षि॒प्रं तदपि॑ रोहतु ।
मा ते॒ मर्म॑ विमृग्वरि॒ मा ते॒ हृद॑यमर्पिपम्
ग्री॒ष्मस्ते॑ भूमे व॒र्षाणि॑ श॒रद्धे॑म॒न्तः शिशि॑रो वस॒न्तः ।
ऋ॒तव॑स्ते॒ विहि॑ता हाय॒नीर॑होरा॒त्रे पृ॑थिवि नो दुहाताम्
याप॑ स॒र्पं वि॒जमा॑ना वि॒मृग्व॑री॒ यस्या॒मास॑न्न॒ग्नयो॒ ये अ॒प्स्व॑न्तः ।
परा॒ दस्यू॒न् दद॑ती देवपी॒यूनिन्द्रं॑ वृणा॒ना पृ॑थि॒वी न वृ॒त्रम्।
श॒क्राय॑ दध्रे वृष॒भाय॒ वृष्णे॑
यस्यां॑ सदोहविर्धा॒ने यूपो॒ यस्यां॑ निमी॒यते॑ ।
ब्र॒ह्माणो॒ यस्या॒मर्च॑न्त्यृ॒ग्भिः साम्ना॑ यजु॒र्विदः॑।
यु॒ज्यन्ते॒ यस्या॑मृ॒त्विजः॒ सोम॒मिन्द्रा॑य॒ पात॑वे
यस्यां॒ पूर्वे॑ भूत॒कृत॒ ऋष॑यो॒ गा उ॑दानृ॒चुः ।
स॒प्त स॒त्रेण॑ वे॒धसो॑ य॒ज्ञेन॒ तप॑सा स॒ह
सा नो॒ भूमि॒रा दि॑शतु॒ यद्धनं॑ का॒मया॑महे ।
भगो॑ अनु॒प्रयु॑ङ्क्ता॒मिन्द्र॑ एतु पुरोग॒वः
यस्यां॒ गाय॑न्ति॒ नृत्य॑न्ति॒ भूम्यां॒ मर्त्या॒ व्यैऽलबाः ।
यु॒ध्यन्ते॒ यस्या॑माक्र॒न्दो यस्यां॒ वद॑ति दुन्दु॒भिः ।
सा नो॒ भूमिः॒ प्र णु॑दतां स॒पत्ना॑नसप॒त्नं मा॑ पृथि॒वी कृ॑णोतु
यस्या॒मन्नं॑ व्रीहिय॒वौ यस्या॑ इ॒माः पञ्च॑ कृ॒ष्टयः॑ ।
भूम्यै॑ प॒र्जन्य॑पत्न्यै॒ नमो॑ऽस्तु व॒र्षमे॑दसे
यस्याः॒ पुरो॑ दे॒वकृ॑ताः॒ क्षेत्रे॒ यस्या॑ विकु॒र्वते॑ ।
प्र॒जाप॑तिः पृथि॒वीं वि॒श्वग॑र्भा॒माशा॑माशां॒ रण्यां॑ नः कृणोतु
नि॒धिं बिभ्र॑ती बहु॒धा गुहा॒ वसु॑ म॒णिं हिर॑ण्यं पृथि॒वी द॑दातु मे ।
वसू॑नि नो वसु॒दा रास॑माना दे॒वी द॑धातु सुमन॒स्यमा॑ना
जनं॒ बिभ्र॑ती बहु॒धा विवा॑चसं॒ नाना॑धर्माणं पृथि॒वी य॑थौक॒सम्।
स॒हस्रं॒ धारा॒ द्रवि॑णस्य मे दुहां ध्रु॒वेव॑ धे॒नुरन॑पस्फुरन्ती
यस्ते॑ स॒र्पो वृश्चि॑कस्तृ॒ष्टदं॑श्मा हेम॒न्तज॑ब्धो भृम॒लो गुहा॒ शये॑ ।
क्रिमि॒र्जिन्वत् पृथिवि॒ यद्य॒देज॑ति प्रा॒वृषि॑ तन्नः॒ सर्प॒न्मोप॑ सृप॒द् यच्छि॒वं तेन॑ नो मृड
ये ते॒ पन्था॑नो ब॒हवो॑ ज॒नाय॑ना॒ रथ॑स्य॒ वर्त्मान॑सश्च॒ यात॑वे ।
यैः सं॒चर॑न्त्यु॒भये॑ भद्रपा॒पास्तं पन्था॑नं जयेमानमि॒त्रम॑तस्क॒रं यच्छि॒वं तेन॑ नो मृड
म॒ल्वं बिभ्र॑ती गुरु॒भृद् भ॑द्रपा॒पस्य॑ नि॒धनं॑ तिति॒क्षुः ।
व॒रा॒हेण॑ पृथि॒वी सं॑विदा॒ना सू॑क॒राय॒ वि जि॑हीते मृ॒गाय॑
ये त आ॑र॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ताः सिं॒हा व्या॒घ्राः पु॑रु॒षाद॒श्चर॑न्ति ।
उ॒लं वृकं॑ पृथिवि दुच्छुना॑मि॒त ऋ॒क्षीकां॒ रक्षो॒ अप॑ बाधया॒स्मत्
ये ग॑न्ध॒र्वा अ॑प्स॒रसो॒ ये चा॒रायाः॑ किमी॒दिनः॑ ।
पि॒शा॒चान्त्सर्वा॒ रक्षां॑सि॒ तान॒स्मद् भू॑मे यावय
यां द्वि॒पादः॑ प॒क्षिणः॑ सं॒पत॑न्ति हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि ।
यस्यां॒ वातो॑ मात॒रिश्वेय॑ते॒ रजां॑सि कृ॒ण्वंश्च्या॒वयं॑श्च वृ॒क्षान्।
वात॑स्य प्र॒वामु॑प॒वामनु॑ वात्य॒र्चिः
यस्यां॑ कृ॒ष्णम॑रु॒णं च॒ संहि॑ते अहोरा॒त्रे विहि॑ते॒ भूम्या॒मधि॑ ।
व॒र्षेण॒ भूमिः॑ पृथि॒वी वृ॒तावृ॑ता॒ सा नो॑ दधातु भ॒द्रया॑ प्रि॒ये धाम॑निधामनि
द्यौश्च॑ म इ॒दं पृ॑थि॒वी चा॒न्तरि॑क्षं च मे॒ व्यचः॑ ।
अ॒ग्निः सूर्य॒ आपो॑ मे॒धां विश्वे॑ दे॒वाश्च॒ सं द॑दुः
अ॒हम॑स्मि॒ सह॑मान॒ उत्त॑रो॒ नाम॒ भूम्या॑म्।
अ॒भी॒षाड॑स्मि विश्वा॒षाडाशा॑माशां विषास॒हिः
अ॒दो यद् दे॑वि॒ प्रथ॑माना पु॒रस्ता॑द् दे॒वैरु॒क्ता व्यस॑र्पो महि॒त्वम्।
आ त्वा॑ सुभू॒तम॑विशत् त॒दानी॒मक॑ल्पयथाः प्र॒दिश॒श्चत॑स्रः
ये ग्रामा॒ यदर॑ण्यं॒ याः स॒भा अधि॒ भूम्या॑म्।
ये सं॑ग्रा॒माः समि॑तय॒स्तेषु॒ चारु॑ वदेम ते
अश्व॑ इव॒ रजो॑ दुधुवे॒ वि तान् जना॒न् य आक्षि॑यन् पृथि॒वीं यादजा॑यत ।
म॒न्द्राग्रेत्व॑री॒ भुव॑नस्य गो॒पा वन॒स्पती॑नां॒ गृभि॒रोष॑धीनाम्
यद् वदा॑मि॒ मधु॑म॒त् तद् व॑दामि॒ यदीक्षे॒ तद् व॑नन्ति मा ।
त्विषी॑मानस्मि जूति॒मानवा॒न्यान् ह॑न्मि॒ दोध॑तः
श॒न्ति॒वा सु॑र॒भिः स्यो॒ना की॒लालो॑ध्नी॒ पय॑स्वती ।
भूमि॒रधि॑ ब्रवीतु मे पृथि॒वी पय॑सा स॒ह
याम॒न्वैच्छद्ध॒विषा॑ वि॒श्वक॑र्मा॒न्तर॑र्ण॒वे रज॑सि॒ प्रवि॑ष्टाम्।
भु॒जि॒ष्यं॑१ पात्रं॒ निहि॑तं॒ गुहा॒ यदा॒विर्भोगे॑ अभवन्मातृ॒मद्भ्यः॑
← Previous (Ch. 473) Full Table of Contents Next (Ch. 475) →