Skip to main content
Search
AV
Atharvaveda Saṁhitā (Śaunaka) • Kāṇḍa 11 (Kāṇḍa 11) • Sūkta 3

Kāṇḍa 11 Sūkta 3

काण्डम् 11 • सूक्तम् 3

Kāṇḍa 11 Sūkta 3 of the Shaunaka Saṁhitā of Atharvaveda with 164 mantras.

Total: 164 Verses • Citations: AV 11.3.1–164 • 2 Lexicon Terms • Page 6 of 6 (Verses 14 shown)
४८॥
तत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्
अ॒प्र॒ति॒ष्ठा॒नोऽनायत॒नो म॑रिष्य॒सीत्ये॑नमाह
तं वा अ॒हं नार्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्
तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम्
ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः
सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑
४९॥
(३)
५०-५६ मन्त्रोक्ताः। ५० आसुर्यनुष्टुप्, ५१ आर्च्युष्णिक्, ५२ त्रिपदा भुरिक्साम्नी त्रिष्टुप्, ५३ आसुरी बृहती, ५४ द्विपदा भुरिक्साम्नी बृहती, ५५ साम्न्युष्णिक्, ५६ प्राजापत्या बृहती।
ए॒तद् वै ब्र॒ध्नस्य॑ वि॒ष्टपं॒ यदो॑द॒नः
ब्र॒ध्नलो॑को भवति ब्र॒ध्नस्य॑ वि॒ष्टपि॑ श्रयते॒ य ए॒वं वेद॑
ए॒तस्मा॒द् वा ओ॑द॒नात् त्रय॑स्त्रिंशतं लो॒कान् निर॑मिमीत प्र॒जाप॑तिः
तेषां॑ प्र॒ज्ञाना॑य य॒ज्ञम॑सृजत
स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भ॑वति प्रा॒णं रु॑णद्धि
न च॑ प्रा॒णं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते
न च॑ सर्वज्या॒निं जी॒यते॑ पु॒रैनं॑ ज॒रसः॑ प्रा॒णो ज॑हाति
← Previous (Ch. 465) Full Table of Contents Next (Ch. 467) →