Skip to main content
Search
AM
Amarukaśatakam • Chapter 01

Complete Text

सर्गः 1

Complete Text of Amarukaśatakam.

Total: 106 Verses • Citations: AM 1.1–106 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
AM 1 वसन्ततिलका
ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥
AM 2 स्रग्धरा
क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतोऽप्य् आददानोऽंशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥
AM 3 शार्दूलविक्रीडितम्
आलोलाम् अलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः । तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥
AM 4 हरिणी
अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः क्षणम् अभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥
AM 5 शार्दूलविक्रीडितम्
दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता दैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् । मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटं हे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥
AM 6 शिखरिणी
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥
AM 7 शार्दूलविक्रीडितम्
नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरे किं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥
AM 8 शार्दूलविक्रीडितम्
कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः । भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् ॥
AM 9 हरिणी
प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा किमुत सकले जाते वाह्णि प्रिय त्वमिहैष्यसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥
AM 10 शार्दूलविक्रीडितम्
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥
AM 11 शार्दूलविक्रीडितम्
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता । अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥
AM 12 हरिणी
कथमपि सखि क्रीडाकोपाद्व्रजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गत एव सः । इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने पुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥
AM 13 शार्दूलविक्रीडितम्
दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्योपहारं वधूः । कर्णालंकृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥
AM 14 शार्दूलविक्रीडितम्
अज्ञानेन पराङ्मुखीं परिभवाद् आश्लिष्य मां दुःखितां किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम् । पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥
AM 15 शार्दूलविक्रीडितम्
एकत्रासनसंस्थितिः परिहता प्रत्युद्गमाद्दूरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥
AM 16 शार्दूलविक्रीडितम्
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् एकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषद्वक्रिमकंधरः सपुलकः प्रेमोल्लसन्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥
AM 17 हरिणी
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥
AM 18 शार्दूलविक्रीडितम्
काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति । मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥
AM 19 शार्दूलविक्रीडितम्
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥
AM 20 शार्दूलविक्रीडितम्
पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं किं मामालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः । इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥
AM 21 शिखरिणी
परिम्लाने माने मुखशशिनि तस्याः करधृते मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे । तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥
AM 22 शार्दूलविक्रीडितम्
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपायते । इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद्विस्मृतम् ॥
AM 23 शार्दूलविक्रीडितम्
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि । शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासम् आलीजनः ॥
AM 24 शार्दूलविक्रीडितम्
भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठम् उद्वीक्षते कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते । रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥
AM 25 शार्दूलविक्रीडितम्
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः । आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥
AM 26 शार्दूलविक्रीडितम्
सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥
AM 27 हरिणी
भवतु विदितं छद्मालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां प्रकृतिचपले का नः पीडा गते हतजीविते ॥
AM 28 हरिणी
उरसि निहितस्तारो हारः कृता जघने घने कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ । प्रियम् अभिसरस्येवं मुग्धे समाहतडिण्डिमा यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥
AM 29 शार्दूलविक्रीडितम्
प्रातः प्रातरुपागतेन जनिता निर्निद्रता चक्षुषोर्मन्दायां मयि गौरवव्यपगमाद् उत्पादितं लाघवम् । किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां दुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥
AM 30 शार्दूलविक्रीडितम्
सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥
Full Table of Contents