Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 07

Adhyāya 7

अध्यायः 7

Adhyāya 7 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 48 mantras.

Total: 48 Verses • Citations: YV 7.1–48 • 2 Lexicon Terms • Page 2 of 2 (Verses 18 shown)
इन्द्रा॑ग्नी॒ आ ग॑तᳪ सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ।
उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाᳪसो॑ दा॒शुष॑: सु॒तम् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑:
विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मᳪ हव॑म् । एदं ब॒र्हिर्निषी॑दत ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्य॑:
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यᳪशा॒समिन्द्र॑म् ।
वि॑श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रᳪस॑हो॒दामि॒ह तᳪ हु॑वेम ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑ते ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ।
उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां॒ त्वौज॑से
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रूँ॒२रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते
म॒रुत्वाँ॑२ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।
आ सि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वᳪ राजा॑ऽसि॒ प्रति॑पत्सु॒ताना॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते
म॒हाँ२ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
अ॒स्म॒द्र॒य्ग्वावृधे वी॒र्या॒यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा
म॒हाँ२ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ२ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तव॑: । दृ॒शे विश्वा॑य॒ सूर्य॒j स्वाहा॑
चि॒त्रं दे॒वाना॒मुदगा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒j सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॒ स्वाहा॑
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम॒ स्वाहा॑
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑: पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजा॑न्जयतु॒ वाज॑साताव॒यᳪ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒: स्वाहा॑
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ वि भ॑जतु ।
ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणा॒ वि स्व॒: पश्य॒ व्यन्तरि॑क्षं॒ यत॑स्व सद॒स्यै॒:
ब्रा॒ह्म॒णम॒द्य वि॑देयं पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒यᳪ सु॒धातु॑दक्षिणम् ।
अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छत प्रदा॒तार॒मा वि॑शत
अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शी॒यायु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय प्रा॒णो दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे
य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॒ऽमृत॒त्त्वम॑शीय॒ हयो॑ दा॒त्र ए॑धि॒ वयो॒ मह्यं॑ प्रतिग्रही॒त्रे
को॑ऽदा॒त्कस्मा॑ अदा॒त्कामो॑ऽदा॒त्कामा॑यादात् ।
कामो॑ दा॒ता काम॑: प्रतिग्रही॒ता कामै॒तत्ते॑
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →