Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 34

Adhyāya 34

अध्यायः 34

Adhyāya 34 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 58 mantras.

Total: 58 Verses • Citations: YV 34.1–58 • 2 Lexicon Terms • Page 2 of 2 (Verses 28 shown)
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न्
आ रा॑त्रि॒ पार्थिव॒ᳪ रज॑: पि॒तुर॑प्रायि॒ धाम॑भिः ।
दि॒वः सदा॑ᳪसि बृह॒ती वि ति॑ष्ठस॒ आ त्वे॒षं व॑र्तते॒ तम॑:
उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं॑ वाजिनीवति । येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे
प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ᳪ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ ।
प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रᳪ हु॑वेम
प्रा॒त॒र्जितं॒ भग॑मु॒ग्रᳪ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः ।
भग॒ प्र नो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑: स्याम
उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघव॒न्त्सूर्य॑स्य व॒यं दे॒वाना॑ᳪ सुम॒तौ स्या॑म
भग॑ ए॒व भग॑वाँ२ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम ।
तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह
सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ ।
अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒: सद॑मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वत॒: प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
पूष॒न् तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न । स्तो॒तार॑स्त इ॒ह स्म॑सि
प॒थस्प॑थ॒: परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॒नड॒र्कम् ।
स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑ – धियᳪ सीषधाति॒ प्र पू॒षा
त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि धा॒रय॑न्
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाᳪस॒: समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम्
घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा ।
द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा
ये न॑: स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।
वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन्
आ ना॑सत्या त्रि॒भिरे॑काद॒शैरि॒ह दे॒वेभि॑र्यातं मधु॒पेय॑मश्विना ।
प्रायु॒स्तारि॑ष्टं॒ नी रपा॑ᳪसि मृक्षत॒ᳪ सेध॑तं॒ द्वेषो॒ भव॑तᳪ सचा॒भुवा॑
ए॒ष व॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॒ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम्
स॒हस्तो॑माः स॒हच्छ॑न्दस आ॒वृत॑: स॒हप्र॑मा॒ ऋष॑यः स॒प्त दै॑व्याः ।
पूर्वे॑षां॒ पन्था॑मनु॒दृश्य॒ धीरा॑ अ॒न्वाले॑भिरे र॒थ्यो न र॒श्मीन्
आ॒यु॒ष्यं॒ वर्च॒स्य॒ᳪ रा॒यस्पोष॒मौद्भि॑दम् । इ॒दᳪ हिर॑ण्यं॒ वर्च॑स्व॒ज्जैत्रा॒यावि॑शतादु॒ माम्
न तद्रक्षा॑ᳪसि॒ न पि॑शा॒चास्त॑रन्ति दे॒वाना॒मोज॑: प्रथम॒जᳪ ह्ये॒तत् ।
यो बि॒भर्ति॑ दाक्षाय॒णᳪ हिर॑ण्य॒ᳪ स दे॒वेषु॑ कृणुते दी॒र्घमायु॒: स म॑नु॒ष्ये॒षु कृणुते दी॒र्घमायु॑:
यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यᳪ श॒तानी॑काय सुमन॒स्यमा॑नाः ।
तन्म॒ आ ब॑ध्नामि श॒तशा॑रदा॒यायु॑ष्माञ्ज॒रद॑ष्टि॒र्यथास॑म्
उ॒त नोऽहि॑र्बु॒ध्न्य॒: शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः ।
विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒ना स्तु॒ता मन्त्रा॑: कविश॒स्ता अ॑वन्तु
इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नू॑: स॒नाद्राज॑भ्यो जु॒ह्वा॒ जुहोमि ।
शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अᳪश॑:
स॒प्त ऋष॑य॒: प्रति॑हिता॒: शरी॑रे स॒प्त र॑क्षन्ति॒ सद॒मप्र॑मादम् ।
स॒प्ताप॒: स्वप॑तो लो॒कमी॑यु॒स्तत्र॑ जागृतो॒ अस्व॑प्नजौ सत्र॒सदौ॑ च दे॒वौ
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुत॑: सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॒म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओका॑ᳪसि चक्रि॒रे
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ।।
य इ॒मा विश्वा॑ वि॒श्वक॑र्मा॒ यो न॑: पि॒ता ऽन्न॑प॒तेऽन्न॑स्य नो देहि
← Previous (Ch. 33) Full Table of Contents Next (Ch. 35) →