Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 20

Adhyāya 20

अध्यायः 20

Adhyāya 20 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 89 mantras.

Total: 89 Verses • Citations: YV 20.1–89 • 2 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
यो भू॒ताना॒मधि॑पति॒र्यस्मिँ॑ल्लो॒का अधि॑ श्रि॒ताः ।
य ईशे॑ मह॒तो म॒हाँस्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वाम॒हम्
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑
प्रा॒ण॒पा मे॑ अपान॒पाश्च॑क्षु॒ष्पाः श्रो॑त्र॒पाश्च॑ मे ।
वाचो॑ मे वि॒श्वभे॑षजो॒ मन॑सोऽसि वि॒लाय॑कः
अ॒श्विन॑कृतस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रे॑ण सु॒त्राम्णा॑ कृ॒तस्य॑ ।
उप॑हूत॒ उप॑हूतस्य भक्षयामि
समि॑द्ध॒ इन्द्र॑ उ॒षसा॒मनी॑के पुरो॒रुचा॑ पूर्व॒कृद्वा॑वृधा॒नः ।
त्रि॒भिर्दे॒वैस्त्रि॒ᳪशता॒ वज्र॑बाहुर्ज॒घान॑ वृ॒त्रं वि दुरो॑ ववार
नरा॒शᳪस॒: प्रति॒ शूरो॒ मिमा॑न॒स्तनू॒नपा॒त्प्रति॑ य॒ज्ञस्य॒ धाम॑ ।
गोभि॑र्व॒पावा॒न् मधु॑ना सम॒ञ्जन् हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः
ई॒डि॒तो दे॒वैर्हरि॑वाँ२ अभि॒ष्टिरा॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः ।
पु॒र॒न्द॒रो गो॑त॒भिद्वज्र॑बाहु॒रा या॑तु य॒ज्ञमुप॑ नो जुषा॒णः
जु॒षा॒णो ब॒र्हिर्हरि॑वान् न॒ इन्द्र॑: प्रा॒चीन॑ᳪ सीदत् प्र॒दिशा॑ पृथि॒व्याः ।
उ॒रु॒प्रथा॒: प्रथ॑मानᳪ स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषा॑:
इन्द्रं॒ दुर॑: कव॒ष्यो धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नी॑: ।
द्वारो॑ दे॒वीर॒भितो॒ वि श्र॑यन्ताᳪ सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः
उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म् ।
तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे
दैव्या॒ मिमा॑ना॒ मनु॑षः पुरु॒त्रा होता॑रा॒विन्द्रं॑ प्रथ॒मा सु॒वाचा॑ ।
मू॒र्धन् य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना प्रा॒चीनं॒ ज्योति॑र्ह॒विषा॑ वृधातः
ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑माना॒ इन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नी॑: ।
अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः
त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णेऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ ।
वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्धन् य॒ज्ञस्य॒ सम॑नक्तु दे॒वान्
वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः ।
इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑
स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ इन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट् ।
घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑माना॒: स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम्
आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒मद॑स्तु॒ शूर॑: ।
वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त्
आ न॒ इन्द्रो॑ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः ।
ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः स॒ङ्गे स॒मत्सु॑ तु॒र्वणि॑: पृत॒न्यून्
आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च ।
तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ᳪ हवे॑ – हवे सु॒हव॒ᳪ शूर॒मिन्द्र॑म् ।
ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्र॑ᳪ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑:
इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒२ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः ।
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम
तस्य॑ व॒यᳪ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
स सु॒त्रामा॒ स्ववाँ॒२ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द् द्वेष॑: सनु॒तर्यु॑योतु
आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः ।
मा त्वा॒ के चि॒न्नि य॑म॒न् विं ना पा॒शिनोऽति॒ धन्वे॑व॒ ताँ२ इ॑हि
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॒र्चन्त्य॒र्कैः ।
स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
समि॑द्धो अ॒ग्निर॑श्विना त॒प्तो घ॒र्मो वि॒राट् सु॒तः । दु॒हे धे॒नुः सर॑स्वती॒ सोम॑ᳪ शु॒क्रमि॒हेन्द्रि॒यम्
त॒नू॒पा भि॒षजा॑ सु॒तेऽश्विनो॒भा सर॑स्वती । मध्वा॒ रजा॑ᳪसीन्द्रि॒यमिन्द्रा॑य प॒थिभि॑र्वहान्
इन्द्रा॒येन्दु॒ᳪ सर॑स्वती॒ नरा॒शᳪसे॑न न॒ग्नहु॑म् । अधा॑ताम॒श्विना॒ मधु॑ भेष॒जं भि॒षजा॑ सु॒ते
आ॒जुह्वा॑ना॒ सर॑स्व॒तीन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य॒म् । इडा॑भिर॒श्विना॒विष॒ᳪ समूर्ज॒ᳪ सᳪ र॒यिं द॑धुः
अ॒श्विना॒ नमु॑चेः सु॒तᳪ सोम॑ᳪ शु॒क्रं प॑रि॒स्रुता॑ । सर॑स्वती॒ तमा ऽभ॑रद्ब॒र्हिषेन्द्रा॑य॒ पात॑वे
क॒व॒ष्यो न॒ व्यच॑स्वतीर॒श्विभ्यां॒ न दुरो॒ दिश॑: । इन्द्रो॒ न रोद॑सी उ॒भे दु॒हे का॒मान्त्सर॑स्वती
उ॒षासा॒नक्त॑मश्विना॒ दिवेन्द्र॑ सा॒यमि॑न्द्रियैः । स॒ञ्जा॒ना॒ने सु॒पेश॑सा॒ सम॑ञ्जाते॒ सर॑स्वत्या
← Previous (Ch. 19) Full Table of Contents Next (Ch. 21) →