Skip to main content
Search
YV
Śukla Yajurveda Saṁhitā (Vājasaneyi) • Chapter 11

Adhyāya 11

अध्यायः 11

Adhyāya 11 of the Vājasaneyi Mādhyandina Saṁhitā of Śukla Yajurveda with 83 mantras.

Total: 83 Verses • Citations: YV 11.1–83 • 2 Lexicon Terms • Page 3 of 3 (Verses 23 shown)
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत् ख॑नत्ववट
दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद्द॑धतूखे
धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद॒भी॒न्धतामुखे॒
वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वच्छ्र॑पयन्तूखे॒
ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे॒
जन॑य॒स्त्वाच्छि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम्
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑ ।
अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ आ पृ॑ण
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् ।
मित्रै॒तां त॑ उ॒खां परि॑ ददा॒म्यभि॑त्त्या ए॒षा मा भे॑दि
वस॑व॒स्त्वाऽऽछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॒ऽऽछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्दसाऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्
आकू॑तिम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ मनो॑ मे॒धाम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युज॒ᳪ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॑ ऽग्नये॑ वैश्वान॒राय॒ स्वाहा॑
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑
मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु । अ॒ग्निश्चे॒दं क॑रिष्यथः
दृᳪह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
जुष्टं॑ दे॒वेभ्य॑ इ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन्
द्र्व॑न्न: स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः
पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ२ अ॒भ्या त॑र ।
यत्रा॒हम॑स्मि॒ ताँ२ अ॑व
प॒र॒मस्या॑: परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि । पु॒री॒ष्य॒: पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृध॑:
यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॒षस्व॑ यविष्ठ्य
अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै । रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम
नाभा॑ पृथि॒व्याः स॑मिधा॒ने अग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।
इ॒र॒म्म॒दं बृ॒हदु॑क्थ्यं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम्
याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त ।
ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताँस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये॑
दᳪष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ२ उ॒त ।
हनु॑भ्याᳪ स्ते॒नान् भ॑गव॒स्ताँस्त्वं खा॑द॒ सुखा॑दितान्
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑ । ये कक्षे॑ष्वघा॒यव॒स्ताँस्ते॑ दधामि॒ जम्भ॑योः
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जन॑: । निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं भ॑स्म॒सा कु॑रु
सᳪशि॑तं मे॒ ब्रह्म॒ सᳪशि॑तं वी॒र्यं बल॑म् । सᳪशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः
उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वाँ२ अ॒हम्
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिण॑: ।
प्र-प्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे
← Previous (Ch. 10) Full Table of Contents Next (Ch. 12) →