सं व॑साथाᳪ स्व॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना॑ ।
अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित्
पु॒री॒ष्यो॒ऽसि वि॒श्वभ॑रा॒ अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ।
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑:
तमु॑ त्वा द॒ध्यङ्ङृषि॑: पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॑त्र॒हणं॑ पुरन्द॒रम्
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒ञ्ज॒यᳪ रणे॑-रणे
सीद॑ होत॒: स्व उ॑ लो॒के चि॑कि॒त्वान्सा॒दया॑ य॒ज्ञᳪ सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ२ अ॑सदत्सु॒दक्ष॑: ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः
सᳪ सी॑दस्व म॒हाँ२ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम्
अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्य॑: ।
तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् ।
यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म्
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒माऽस॑द॒त्स्व॑: ।
वासो॑ अग्ने वि॒श्वरू॑प॒ᳪ सं व्य॑यस्व विभावसो
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या । दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभि॑:
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता । ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे
स जा॒तो गर्भो॑ असि॒ रोद॑स्योरग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशु॒: परि॒ तमा॑ᳪस्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रद॒द्गाः
स्थि॒रो भ॑व वी॒ड्व॒ङ्ग आ॒शुर्भ॑व वा॒ज्य॒र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः ।
मा द्यावा॑पृथि॒वी अ॒भि शो॑ची॒र्माऽन्तरि॑क्षं॒ मा वन॒स्पती॑न्
प्रै॑तु वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भ॒: पत्वा॑ । भर॑न्न॒ग्निं पु॑री॒ष्यं मा पा॒द्यायु॑षः पु॒रा ।
वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भ॑ᳪ समु॒द्रिय॑म् । अग्न॒ आ या॑हि वी॒तये॑
ऋ॒तᳪ स॒त्यमृ॒तᳪ स॒त्यम॒ग्निं पु॑री॒ष्य॒मङ्गिर॒स्वद्भ॑रामः ।
ओष॑धय॒: प्रति॑ मोदध्वम॒ग्निमे॒तᳪ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः ।
व्यस्य॒न् विश्वा॒ अनि॑रा॒ अमी॑वा नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिं ज॑हि
ओष॑धय॒: प्रति॑ गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः । अ॒यं वो॒ गर्भ॑ ऋ॒त्विय॑: प्र॒त्नᳪ स॒धस्थ॒माऽस॑दत्
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हᳪ सु॒हव॑स्य॒ प्रणी॑तौ
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से
यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑:
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः
मि॒त्रः स॒ᳪसृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह ।
सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ सᳪ सृ॑जामि प्र॒जाभ्य॑:
रु॒द्राः स॒ᳪसृज्य॑ पृथि॒वीं बृ॒हज्ज्योति॒: समी॑धिरे । तेषां॑ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते
सᳪसृ॑ष्टा॒ वसु॑भी रुद्रै॒र्धीरै॑: कर्म॒ण्या मृद॑म् । हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम्
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः
उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या । मा॒ता पु॒त्रं यथो॒पस्थे॒ साऽग्निं बि॑भर्तु॒ गर्भ॒ आ । म॒खस्य॒ शिरो॑ऽसि
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॑ पृथि॒व्य॒सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽस्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानायादि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वासि द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ
सजा॒तान्यज॑मानाय॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु । कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ ।
पु॒त्रेभ्य॒: प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रुद्रास्त्वा॑ धूपयन्तु त्रैष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदादि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा
धूपयतु