Skip to main content
Search
Ch. 7 SP 7.1064
Full Chapter
SP • Chapter 7: Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

SP 7.1064

Canonical Ref: SP 7.1064
Sanskrit (Devanāgarī)
तर्हि 'सङ्घातस्यैकार्थ्यात् सुबभावो वर्णात्' भविष्यति। वृक्ष इत्यत्र ह्येकत्वं विभक्त्या द्योत्यते, तच्चैकमित्येकैव विभक्तिरुत्पद्यते, यथा बहवो द्रष्टार एकेनैव प्रदीपेन दृश्‍यमर्थं पश्यनित, एवं स च समुदायादेव तन्त्रेण सर्वानुग्राहिण्युत्पद्यते समुदायद्विर्वचनवत्। यथा हि पपाचेत्यादौ प्रथमस्यैकाचो द्विर्वचनप्रसङ्गे येनैवाचा समुदाय एकाच्, नेव तदवययोऽपि पशब्दश्चेति तत्र पृथगवयवैकाचो न द्विरुच्यन्ते; किं तर्हि? सर्वानुग्रहात् समुदायैकाच एव। तथैहापि समुदायादुत्पत्तौ वर्णात् सुबुत्पत्तिर्न भविष्यतीति तदभावान्न पदसंज्ञा। अपदत्वाच्च नलोपादीनामप्रसङ्ग इति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 7.1064. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 7.1063) All Verses in Chapter 7 Next Verse (SP 7.1065) →