Skip to main content
Search
Ch. 7 SP 7.1054
Full Chapter
SP • Chapter 7: Prakāśa 7: केवलशब्दसम्बन्धशक्तिप्रकाशः

SP 7.1054

Canonical Ref: SP 7.1054
Sanskrit (Devanāgarī)
अथैवमुपन्यस्तः केवलेन प्रयुज्यमानेन नोच्यतेऽसावर्थ इति। क्‍व पुनरयं भवता केवलः प्रयुज्यमानोऽर्थमब्रुवन् दृष्टः? यदि च प्रयुज्येत न चार्थ उपलभ्येत, स्यादयं हेतुः केवलेनावचनादिति। अन्यद् भवान् पृष्टोऽन्यदेव प्रतिविधत्ते। मया ह्येवमुच्यते, समुदायस्यार्थे प्रयोगादवयवार्थानामप्रसिद्धिरिति। यतो वर्णास्तावदनर्थका भवताभ्युपगताः; तेषां च समुदायतन्त्राणां केवलानां प्रयोगो नास्ति। यद्यपि प्रयुज्येरन् अनर्थकानामेव प्रयोगः स्यात्। एवं प्रकृतीनामपि समुदायतन्त्राणां नास्ति केवलानां प्रयोगः; योगे वा सत्यनर्थकाः प्रयुज्येरन्।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 7.1054. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 7.1053) All Verses in Chapter 7 Next Verse (SP 7.1055) →