Skip to main content
Search
Ch. 3 SP 3.430
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.430

Canonical Ref: SP 3.430
Sanskrit (Devanāgarī)
किंच यथाकथंचिदाश्रीयमाणोऽर्थस्सामानाधिकरण्येनावधिभावेन वा विशेषणत्वं न व्यतिक्रामति। तथा हि, व्रज देवदत्तेत्यामन्त्रितस्य विशेषणत्वेनैकवाक्‍यत्वाद् 'आमन्त्रितस्य च' (८.७.१९) इति निघातो दृश्‍यते; कर्तृत्वाद्भविष्यतीति चेद् व्रजानि देवदत्तेत्यत्र कथम्? न हि देवदत्तो व्रजिक्रियायाः कर्ता, न खल्वपि कारकस्य विशेषकम्, नापि सुष्ठु पचतीति पदान्तरत्वेन क्रियाविशेषणमुपपद्यते। किंतु क्रियां प्रति आभिमुख्येनावस्थाप्यमानः पञ्च वारान् पचतीतिवत् बाह्यविशेषणतां लभते। कः पुनर्बाह्यान्तरयोः क्रियाविशेषणयोविंशेषः ? अयमस्ति आन्तरं हि क्रियाविशेषणं कर्मत्वं नपुंसकत्वं च प्रतिलभते; बाह्यस्य तु स्वलिङ्गता न कर्मत्वनियमः। एवं च कृत्वोक्तम्—
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.430. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.429) All Verses in Chapter 3 Next Verse (SP 3.431) →