Skip to main content
Search
Ch. 3 SP 3.422
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.422

Canonical Ref: SP 3.422
Sanskrit (Devanāgarī)
अथवा द्वे एते वाक्‍ये—एकमेतावति वाक्‍यम् 'इह पश्र्यामः' कर्मणि द्विवचनबहुवचनादीनि वचनान्येव दृशः कर्मत्वेनावतिष्ठन्ते, नोदाहृतिः। अतश्‍च पश्र्यामो यस्मादुदाह्रियन्ते प्रयुज्यन्त इति द्वितीयम्। एहि मन्ये रथेन यास्यसीत्यत्र 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च' (१.४.१०६) इति वचनाद् यदायमर्थः एहि मन्यसे रथेन यास्यामीति। यदा वा सूत्रप्रतिषेधपक्षे स्वविषय एव मध्यमोत्तमौ तदा सर्वथा गम्यमानेति— शब्दोपसंहृतस्य वाक्‍यार्थस्यैव कर्मत्वम्। एहीति च प्रहासविषयसंबोधनार्थ आख्यातस्वरूपो निपातः। आख्यांतस्वरूपाश्‍च पुरुषं संख्यां न व्यभिचरन्ति; न हि भवति त्वमस्ति वयमस्तीति। किञ्चास्तिरपि निपातः; सोऽयं यथा अस्तिक्षीरा गौः; तत्र ह्याख्यातमिति कृत्वोक्तः; सुबधिकारेऽस्तिक्षीरादिवचनमिति; न चाव्ययत्वात्; निपातोऽयमिति परिहारः।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.422. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.421) All Verses in Chapter 3 Next Verse (SP 3.423) →