Skip to main content
Search
Ch. 3 SP 3.412
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.412

Canonical Ref: SP 3.412
Sanskrit (Devanāgarī)
ननु च यथा पाकं करोति, पाको वर्तते इति तिङ्कृदभिहितयोः क्रिययोस्साध्य— साधनभावो दृश्यते, तथा च पठति पचतीत्येतयोरपि कस्मान्न भवति ? नैवम्; उक्तमिदं भाष्ये, 'अस्ति खलु तिङभिहितस्य कृदभिहितस्य भावस्य विशेषः, कृदभिहितो हि भावो द्रव्यवत् प्रकाशमानः क्रियया समवायं गच्छति' इति। न हि भवति पचति पठति इति लक्ष्यलक्षणभावोऽप्याख्याताभिहितयोः क्रिययोरभिन्न— साधनयोर्वा संभवति। द्विधापि चानुपपत्तिः; साध्यमानत्वेन प्रवर्तमानस्य साधनपरतन्त्रस्य चात्मनोऽनिदन्तानिर्देशस्य साधनवल्लक्षणत्वायोगात्। ननु च मा भूत् क्रियायास्साधनम्; लक्षणं तूभयथापि दृश्यते, पाचकः पठति, रुदतः प्राव्राजीदिति। ततो यः पचति स पठति, स रोदिति, अयं प्रव्रजतीत्याख्यातयोर्लक्ष्यलक्षणभावो भविष्यति। चिरं जीव, त्वयैव स्मारितोऽस्मि। आख्यातयोर्लक्ष्यलक्षणत्वेना— सम्बन्धकारणस्य यदत्र 'लक्षणहेत्वोः क्रियायाः' (३.२.१२६) इति शतृशानचौ तिङपवादौ स्मर्येते। अतो लक्षणत्वे क्रियायाः क्रियान्तरं प्रति समाश्रीयमाणे पचन् पठति, रुदतः प्राव्राजीदित्येव भवितव्यम्।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.412. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.411) All Verses in Chapter 3 Next Verse (SP 3.413) →