Skip to main content
Search
Ch. 3 SP 3.409
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.409

Canonical Ref: SP 3.409
Sanskrit (Devanāgarī)
नन्विदानीमेव प्रपचति, स्तोकं पचतीत्यसत्त्वभूतयोः प्रशब्दस्तोकशब्दयो— र्विशेषणत्वमुक्तम्। नैवम्; अन्यथा तदुपपत्तेः, उपसर्गाणां क्रियाविशेषणानां वा सत्त्वभूतानामप्यनन्यविषयत्वेनैव क्रियां प्रति गुणभावो भवति। तथा हि—योऽसौ क्रियाभूतो धर्मः प्रारम्भादिः; तं क्रियार्थमिव क्रियानुप्रविष्टमसत्वभऊतमभिदधत् प्रशब्दोऽभिव्यञ्जयति। यदि वा यथाक्षिनिकोचादयोऽभिदधत एवार्थान् प्रदर्शयन्ति, एवं क्रियास्थान्, प्रारम्भादीनन— भिदधत एव प्रादयोऽवद्योतयन्ति। दृश्‍यते अनधीयमानस्याप्यर्थस्यात्मस्थस्यावद्योतनं, यथा दाण्डा क्रीडेति; 'तदस्यां प्रहरणमिति क्रीडायां णो' (४.२. ५७) विहितः क्रीडामब्रुवन् प्रहरणत्वं दण्डत्वमवद्योतयति। तस्मात् प्रपचतीत्यत्र पचिमेव संदिग्धं विशेष एव स्थापयन्नसत्त्वार्थोऽपि प्रशब्दो विशेषणत्वं लभते। एवं स्तोकशब्दोऽपि क्रियाभूतं धर्मपकर्षादिकं क्रियार्थमिव असत्त्वभूतं क्रियानुप्रविष्टमभिदधानः क्रियानुरोधादेवा— सत्त्वभावमापन्नः क्रियाविशेषणत्वं भजते।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.409. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.408) All Verses in Chapter 3 Next Verse (SP 3.410) →