Skip to main content
Search
Ch. 3 SP 3.30
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.30

Canonical Ref: SP 3.30
Sanskrit (Devanāgarī)
तत् तु सम्यक्। तथाहि 'भिद्यते कुसूलस्स्वयमेव, अकारि कटः स्वयमेवेत्यादिषु कर्मण्येव यक्‍चिणौ, स्वयंशब्दात्तु कर्मकर्त्तुकत्वप्रतीतिः। अरोधि गौस्स्वयमेवेति रुधेरपि कर्मविवक्षायां चिण् भवत्येव अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तुत्वं तदा अरोधि गौर्गोपालेनेति। यदा तु गोरात्मनेपद एव कर्मकर्त्तृत्वं तदाऽरोधि गौरात्मनैवेति भवति। य एवार्थ आत्मनैवेति स स्वयमेवेति। अरोधीति चोक्‍ते नाश्रुते कर्त्तृवाचिनि पदान्तरे कर्मकर्त्तुत्वं गम्यते। तस्मादिहापि कर्मण्येव णिच्। भूषयते कन्या स्वयमेवेत्यादिषु तु 'णोरणौ यत् कर्म णौ चेत् स कर्त्ताऽनाध्याये' (१.३. ६७) इति फलवति कर्त्तर्येवात्मनेपदम्। कुतस्त्या तर्ह्येतेषु कर्मकर्त्तृताप्रसिद्धिः ?
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.30. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.29) All Verses in Chapter 3 Next Verse (SP 3.31) →