Skip to main content
Search
Ch. 3 SP 3.234
Full Chapter
SP • Chapter 3: Prakāśa 3: प्रकृत्यादिशब्दप्रकाशः

SP 3.234

Canonical Ref: SP 3.234
Sanskrit (Devanāgarī)
न चैवं सति प्रेरणानर्थक्यं, यतो विच्छेदमाशङ्कमानः क्रियायां प्रवृत्तमपि प्रेरयति। यत्राप्यप्रवृत्त एव प्रवर्त्यते तत्रापि योग्यत्वाद्व‍ुद्धिस्थं क्रियासम्बन्धं गृहीत्वा प्रयुङ्क्ते। बुद्धिनिबन्धनोऽपि क्रियाकर्त्रोस्सम्बन्ध उपपद्यते। तदाप्याख्यानात् कृतस्तदाचष्ट इत्याद्युपसंख्यानं 'न वा सामान्यकृतत्वाद्धेतुतो ह्यविशिष्टम्' इति बुद्धिनिबन्धनत्वेनैव प्रत्याख्यातम्। तदा च बुद्धिकंसो बुद्धिवासुदेवेन हन्यत इत्येवंभूतबुद्धिविषयं प्रयोजकव्यापारमाश्रित्य पुनर्बौद्ध एव प्रयोजकव्यापारोऽङ्गीकृतः। अथोऽर्थाक्षिप्तकर्तृसङ्गताया धात्वभिहितायाः क्रियायाः प्रत्ययार्थत्वेन प्रेरणादिना सम्बन्ध इति। अत एव प्रवृत्तोऽपि प्रेष्यमाणे लोडादिप्रत्ययोत्पत्तेः कर्तृत्वस्यापायात्। ननु कथमप्रवृत्तबाह्ययोगः कर्तृत्वमुपेयात्। प्रैषसाध्यं च कर्तृत्वं कथं नाम ततः प्रागेव भवेत् ? उच्यते; नेदं बाह्यप्रयोगप्रवृत्त्यधीनं कर्तृत्वमभिधीयते। क्रियायां तु सम्बध्यमानत्वेन विवक्षितायां तत्साध्यतानान्तरीयकः सामर्थ्यप्रापितसन्निधानः कर्ता स्थित एव प्रयोजकव्यापारेण बाह्यप्रयोगसिद्ध्यर्थमेव विषयीक्रियते। अन्यथा प्रयोजकव्यापारापेक्षकर्तृत्वे प्रयोजकोत्तरकालमेवास्य कर्तृत्वं भवेदिति न संप्रति कर्तृत्वाभावे तन्निबन्धनो लोडादिरुपपद्यते। तस्मात्पचतीत्यादिना यः पचति स पाकं प्रति प्रवर्तयत्विति कथितं भवति। क्रियासामर्थ्यादेनं निर्ज्ञातं कर्तारं प्रैष्यतया— भिधेयभावेन लकारोऽभिनिविशते। तथा हि— सोऽयं पाकादिधात्वर्थसामर्थ्यादवगतः कर्ता साधनत्वार्थस्य बाह्यप्रयोगसंपत्त्यर्थप्रेषणादिव्यापारविषयीकृतः प्रत्ययेनाभिधीयत इत्यामनन्ति।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 3.234. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 3.233) All Verses in Chapter 3 Next Verse (SP 3.235) →