Skip to main content
Search
Ch. 15 SP 15.155
Full Chapter
SP • Chapter 15: Prakāśa 15: रत्यालम्बनविभावप्रकाशः

SP 15.155

Canonical Ref: SP 15.155
Sanskrit (Devanāgarī)
१. 'सीताहरणप्रसङ्गः प्रयुज्यते। उपस्थितश्‍च प्रेक्षकेषु रामोऽपि। नासहिष्टासौ दृश्‍यमिदम्। क्रुद्धः स भीमाकृतिर्जातः। विष्णुत्वसंस्कारस्तु तत्र जजागार अस्मरच्‍च शार्ङ्गस्फालनायाः सः। उपस्थिता तु तस्याग्रे सीता। तां वीक्ष्य स्वीये विभ्रमे सव्रीडो रामो मुखं ननामे'—ति घटनाजातं मनसि कृत्वा निष्क्रष्टव्योत्र तात्पर्यार्थः। (नट = नथ। शार्ङ्गा = अङ्गा।) २. सीता राममनुगता। लक्ष्मणोऽपि गृहिणमग्रजमनुयियासाञ्चकार। स्वेऽध्यवसाये सीता लज्जितु— मारब्धा गुरवः पश्‍यन्तीति ध्यात्वा। तामेनां नम्रवक्त्राम्बुजो लक्ष्मणो वारयामास भ्रुकुटिपुटबन्धद्वारा। अयमत्राधारभूतोऽर्थः। द्रष्टव्याऽत्र पद्यसूची। संपूर्णे शृङ्गारप्रकाशे श्‍लोक एष वारत्रयमुद्‍धृतः—८६६ पृष्ठे, ९६५ पृष्ठे, १४०८ पृष्ठे च। ९६५ पृष्ठे राघवग्रन्थे प्रतीकमात्रम्। अत्र पाठभेदाः—'जानकी शोकनिष्ठा रा. (पृ.१५५१), जानकीं चाकरिष्टा(?)जो.(पृ.६०२),रा.(पृ.९९४), जानकी सा कनिष्ठा जो (पृ.६७६)। अहो सेवां सरस्वत्याः। नैवं धृष्ट ! ब्रवीमि व्रजयुवतिमहं बाढमेष व्रजामी— त्येवं गोप्याऽवताद् वः क्षणकपटगिरा प्रीणितः कैटभारिः॥ ४१॥
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 15.155. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 15.154) All Verses in Chapter 15 Next Verse (SP 15.156) →