Skip to main content
Search
Ch. 1 SP 1.901
Full Chapter
SP • Chapter 1: Prakāśa 1: प्रकृत्यादिप्रकाशः

SP 1.901

Canonical Ref: SP 1.901
Sanskrit (Devanāgarī)
५. सुबन्तनामभ्यां यथा— दधिसेक्, चर्मकारः, चर्मक्रीती, धनक्रीता, ब्राह्मणाच्छंसी, सरसिजम्' इति। अत्र 'कुगतिप्रादयः (२.२.१८), 'उपपदमतिङ्' (२.२.१९) इत्यत्र अतिङ्ग्रहणेनोभयसूत्रशेषतया व्याख्यायमानेन सुबित्येतस्य निवृत्तिः क्रियते; 'कर्त्तृकरणे कृता बहुलम् (२.१.३२), इत्यत्र च कर्त्तृकरणयोः समासविध /?/नादुत्तरपदस्य कृदन्ततायां लब्धायां कृद्ग्रहणादतिरिक्‍तात् तदन्तावस्थायामेव समासाभ्यनुज्ञाने सुपेत्येतदपि निवर्त्तते। ततश्‍च 'गतिकारकोपपदानां कृद्‌भिः सह समासवचनम् सुबुत्पत्तेः प्रागेव' भवतीत्याख्यातम्; बहुलग्रहणस्य चेष्टसिद्‌ध यर्थत्वात्।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 1.901. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 1.900) All Verses in Chapter 1 Next Verse (SP 1.902) →