Skip to main content
Search
RS
Ṛtusaṁhāram • Chapter 04

Canto 4

चतुर्थः सर्गः

Canto 4 of Ṛtusaṁhāram.

Total: 19 Verses • Citations: RS 4.1–19 • 1 Lexicon Terms
RS 4.1 उपजातिः
नवप्रवालोद्गमसस्यरम्यः प्रफुल्ललोध्रः परिपक्वशालिः । विलीनपद्मः प्रपतत्तुषारो हेमन्तकालः समुपागतोऽयम् ॥
RS 4.2 उपजातिः
मनोहरैश्चन्दनरागगौरैस्तुषारकुन्देन्दुनिभैश्च हारैः । विलासिनीनां स्तनशालिनीनां नालंक्रियन्ते स्तनमण्डलानि ॥
RS 4.3 उपजातिः
न बाहुयुग्मेषु विलासिनीनां प्रयान्ति सङ्गं वलयाङ्गदानि । नितम्बबिम्बेषु नवं दुकूलं तन्वंशुकं पीनपयोधरेषु ॥
RS 4.4 उपजातिः
काञ्चीगुणैः काञ्चनरत्नचित्रैर्नो भूषयन्ति प्रमदा नितम्बान् । न नूपुरैर्हंसरुतं भजद्भिः पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥
RS 4.5 उपजातिः
गात्राणि कालीयकचर्चितानि सपत्त्रलेखानि मुखाम्बुजानि । शिरांसि कालागुरुधूपितानि कुर्वन्ति नार्यः सुरतोत्सवाय ॥
RS 4.6 उपजातिः
रतिश्रमक्षामविपाण्डुवक्त्राः सम्प्राप्तहर्षाभ्युदयास्तरुण्यः । हसन्ति नोच्चैर्दशनाग्रभिन्नान्प्रपीड्यमानानधरानवेक्ष्य ॥
RS 4.7 उपजातिः
पीनस्तनोरःस्थलभागशोभामासाद्य तत्पीडनजातखेदः । तृणाग्रलग्नैस्तुहिनैः पतद्भिराक्रन्दतीवोषसि शीतकालः ॥
RS 4.8 उपजातिः
प्रभूतशालिप्रसवैश्चितानि मृगाङ्गनायूथविभूषितानि । मनोहरक्रौञ्चनिनादितानि सीमान्तराण्युत्सुकयन्ति चेतः ॥
RS 4.9 उपजातिः
प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि । प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥
RS 4.10 उपजातिः
मार्गं समीक्ष्यातिनिरस्तनीरं प्रवासखिन्नं पतिमुद्वहन्त्यः । अवेक्ष्यमाणा हरिणेक्षणाक्ष्यः प्रबोधयन्तीव मनोरथानि ॥
RS 4.11 उपजातिः
पाकं व्रजन्ती हिमजातशीतैराधूयमाना सततं मरुद्भिः । प्रिये प्रियङ्गुः प्रियविप्रयुक्ता विपाण्डुतां याति विलासिनीव ॥
RS 4.12 उपजातिः
पुष्पासवामोदसुगन्धिवक्त्रो निःश्वासवातैः सुरभीकृताङ्गः । परस्पराङ्गव्यतिषङ्गशायी शेते जनः कामरसानुविद्धः ॥
RS 4.13 उपजातिः
दन्तच्छदैः सव्रणदन्तचिह्नैः स्तनैश्च पाण्यग्रकृताभिलेखैः । संसूच्यते निर्दयमङ्गनानां रतोपभोगो नवयौवनानाम् ॥
RS 4.14 वसन्ततिलका
काचिद्विभूषयति दर्पणसक्तहस्ता बालातपेषु वनिता वदनारविन्दम् । दन्तच्छदं प्रियतमेन निपीतसारं दन्ताग्रभिन्नमवकृष्य निरीक्षते च ॥
RS 4.15 वसन्ततिलका
अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा । स्रस्तांसदेशललिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥
RS 4.16 वसन्ततिलका
निर्माल्यदाम परिभुक्तमनोज्ञगन्धं मूर्ध्नोऽपनीय घननीलशिरोरुहान्ताः । पीनोन्नतस्तनभरानतगात्रयष्ट्यः कुर्वन्ति केशरचनामपरास्तरुण्यः ॥
RS 4.17 वसन्ततिलका
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा । कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी ॥
RS 4.18 वसन्ततिलका
अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः । संहृष्यमाणपुलकोरुपयोधरान्ता अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥
RS 4.19 मालिनी
बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमा । विनिपतिततुषारः क्रौञ्चनादोपगीतः प्रदिशतु हिमयुक्तः काल एषः सुखं वः ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →