Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 8 (Maṇḍala 8) • Sūkta 42

Maṇḍala 8 Sūkta 42

मण्डलम् 8 • सूक्तम् 42

Maṇḍala 8 Sūkta 42 of the Ṛgveda Saṁhitā with 6 mantras.

Total: 6 Verses • Citations: RV 8.42.1–6 • 3 Lexicon Terms
६ नाभाक: काण्व:, अर्चनाना आत्रेयो वा ।१-३ वरुण:, ४-६ अश्विनौ ।१-३ त्रिष्टुप् , ४-६ अनुष्टुप् ।

अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः ।

आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑
ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् ।

स न॒: शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑
इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।

ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम
आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे
यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे
← Previous (Ch. 661) Full Table of Contents Next (Ch. 663) →