Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 7 (Maṇḍala 7) • Sūkta 50

Maṇḍala 7 Sūkta 50

मण्डलम् 7 • सूक्तम् 50

Maṇḍala 7 Sūkta 50 of the Ṛgveda Saṁhitā with 4 mantras.

Total: 4 Verses • Citations: RV 7.50.1–4 • 3 Lexicon Terms
४ मैत्रावरुणिर्वसिष्ठ:।१ मित्रावरुणौ,२ अग्नि:, ३ विश्वे देवा:, ४नद्य: । जगती ,४ अतिजगती शक्व्वरी वा ।

आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् ।

अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑:
यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् ।

अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑:
यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्य॒: परि॒ जाय॑ते वि॒षम् ।

विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑:
याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः ।

ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु
← Previous (Ch. 565) Full Table of Contents Next (Ch. 567) →