Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 7 (Maṇḍala 7) • Sūkta 26

Maṇḍala 7 Sūkta 26

मण्डलम् 7 • सूक्तम् 26

Maṇḍala 7 Sūkta 26 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 7.26.1–5 • 3 Lexicon Terms
५ मैत्रावरुणिर्वसिष्ठ:। इन्द्र: । त्रिष्टुप् ।

न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तास॑: ।

तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः
उ॒क्थौ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तास॑: ।

यदीं॑ स॒बाध॑: पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते
च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धस॑: सु॒तेषु॑ ।

जनी॑रिव॒ पति॒रेक॑: समा॒नो नि मा॑मृजे॒ पुर॒ इन्द्र॒: सु सर्वा॑:
ए॒वा तमा॑हुरु॒त शृ॑ण्व॒ इन्द्र॒ एको॑ विभ॒क्ता त॒रणि॑र्म॒घाना॑म् ।

मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑
ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति ।

स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
← Previous (Ch. 541) Full Table of Contents Next (Ch. 543) →