Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 53

Maṇḍala 5 Sūkta 53

मण्डलम् 5 • सूक्तम् 53

Maṇḍala 5 Sūkta 53 of the Ṛgveda Saṁhitā with 16 mantras.

Total: 16 Verses • Citations: RV 5.53.1–16 • 3 Lexicon Terms
१६ श्यावाश्व आत्रेयः। मरुतः। १, ५, १०-११, १५ ककुप्, २ बृहती, ३ अनुष्टुप्, ४ पुर उष्णिक्, ६-७, ९, १३-१४, १६ सतोबृहती, ८, १२ गायत्री।

को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् ।

यद् यु॑यु॒ज्रे कि॑ला॒स्य॑:
ऐतान् रथे॑षु त॒स्थुष॒: कः शु॑श्राव क॒था य॑युः ।

कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टय॑: स॒ह
ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ ।

नरो॒ मर्या॑ अरे॒पस॑ इ॒मान् पश्य॒न्निति॑ ष्टुहि
ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ ।

श्रा॒या रथे॑षु॒ धन्व॑सु
यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः ।

वृ॒ष्टी द्यावो॑ य॒तीरि॑व
आ यं नर॑: सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।

वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टय॑:
त॒तृ॒दा॒नाः सिन्ध॑व॒: क्षोद॑सा॒ रज॒: प्र स॑स्रुर्धे॒नवो॑ यथा ।

स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद् वर्त॑न्त ए॒न्य॑:
आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त ।

माव॑ स्थात परा॒वत॑:
मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒: सिन्धु॒र्नि री॑रमत् ।

मा व॒: परि॑ ष्ठात् स॒रयु॑: पुरी॒षिण्य॒स्मे इत् सु॒म्नम॑स्तु वः
तं व॒: शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।

अनु॒ प्र य॑न्ति वृ॒ष्टय॑:
॥

शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑: ।

अनु॑ क्रामेम धी॒तिभि॑:
॥

कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः । ए॒ना यामे॑न म॒रुत॑:
येन॑ तो॒काय॒ तन॑याय धा॒न्यं१ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् ।

अ॒स्मभ्यं॒ तद् ध॑त्तन॒ यद् व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम्
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।

वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह
सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुत॒: स मर्त्य॑: । यं त्राय॑ध्वे॒ स्याम॒ ते
स्तु॒हि भो॒जान् त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न् गावो॒ न यव॑से ।

य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिन॑:
← Previous (Ch. 406) Full Table of Contents Next (Ch. 408) →