Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 49

Maṇḍala 5 Sūkta 49

मण्डलम् 5 • सूक्तम् 49

Maṇḍala 5 Sūkta 49 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 5.49.1–5 • 3 Lexicon Terms
५ प्रतिप्रभ आत्रेयः, (५ तृणपाणिः)। विश्वे देवाः। त्रिष्टुप्।

दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ।

आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन्
प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान् त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य ।

उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः
अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः ।

इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः
तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत् सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् ।

उप॒ यद् वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः
प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः ।

अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम
← Previous (Ch. 402) Full Table of Contents Next (Ch. 404) →