Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 21

Maṇḍala 5 Sūkta 21

मण्डलम् 5 • सूक्तम् 21

Maṇḍala 5 Sūkta 21 of the Ṛgveda Saṁhitā with 4 mantras.

Total: 4 Verses • Citations: RV 5.21.1–4 • 3 Lexicon Terms
४ सस आत्रेयः। अग्निः। अनुष्टुप्, ४ पंक्तिः।

म॒नु॒ष्वत् त्वा॒ नि धी॑महि मनु॒ष्वत् समि॑धीमहि । अग्ने॑ मनु॒ष्वद॑ङ्गिरो दे॒वान् दे॑वय॒ते य॑ज
त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री॑त इ॒ध्यसे॑ । स्रुच॑स्त्वा यन्त्यानु॒षक् सुजा॑त॒ सर्पि॑रासुते
त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत । स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते
दे॒वं वो॑ देवय॒ज्यया॒ ऽग्निमी॑ळीत॒ मर्त्य॑: ।

समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः
← Previous (Ch. 374) Full Table of Contents Next (Ch. 376) →