Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 5 (Maṇḍala 5) • Sūkta 16

Maṇḍala 5 Sūkta 16

मण्डलम् 5 • सूक्तम् 16

Maṇḍala 5 Sūkta 16 of the Ṛgveda Saṁhitā with 5 mantras.

Total: 5 Verses • Citations: RV 5.16.1–5 • 3 Lexicon Terms
५ पूरुरात्रेयः। अग्निः। अनुष्टुप्, ५ पंक्तिः।

बृ॒हद् वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः
स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः ।

वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति
अ॒स्य स्तोमे॑ म॒घोन॑: स॒ख्ये वृ॒द्धशो॑चिषः ।

विश्वा॒ यस्मि॑न् तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः
अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ ।

तमिद् य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः
नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र ।

ये व॒यं ये च॑ सू॒रय॑: स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे
← Previous (Ch. 369) Full Table of Contents Next (Ch. 371) →