Skip to main content
Search
RV
Ṛgveda Saṁhitā • Maṇḍala 1 (Maṇḍala 1) • Sūkta 49

Maṇḍala 1 Sūkta 49

मण्डलम् 1 • सूक्तम् 49

Maṇḍala 1 Sūkta 49 of the Ṛgveda Saṁhitā with 4 mantras.

Total: 4 Verses • Citations: RV 1.49.1–4 • 3 Lexicon Terms
४ प्रस्कण्वः काण्वः। उषाः। अनुष्टुप्।

उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द् रोच॒नादधि॑ ।

वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम्
सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था॑ उष॒स्त्वम् ।

तेना॑ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः
वय॑श्चित् ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।

उष॒: प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑
व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् ।

तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत
← Previous (Ch. 48) Full Table of Contents Next (Ch. 50) →