Skip to main content
Search
Ch. 9 RV 9.74
Full Chapter
RV • Chapter 9: Canto 9

RV 9.74

Canonical Ref: RV 9.74
Metrical Form: वियोगिनी
Sanskrit (Devanāgarī)
नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् । अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): नृपतेरिति॥ तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्‌करम् गजवधरूपं पङ्क्तिरथो दशरथो विलङघ्‌य `लक्ष्मी कामो युद्धादन्यत्र करिवधं न कुर्यात्` इति शास्त्रमुल्लङ्घअय कृतवान्। ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति। श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः सन्तः। न पन्था इत्यपथम्। `पथो विभाषा` (पा.5।4।72) इति वा समासान्तः। `अपथं नपुंसकम्` (पा.2।4।30)इति नपुंसकम्। `अपन्थास्त्वपथं तुल्ये` इत्यमरः (अ.को.2|1|18)। तस्निन्नपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि। प्रवर्तन्त इत्यर्थः। वैतालीयं वृत्तम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 9.74. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 9.73) All Verses in Chapter 9 Next Verse (RV 9.75) →