Skip to main content
Search
Ch. 9 RV 9.61
Full Chapter
RV • Chapter 9: Canto 9

RV 9.61

Canonical Ref: RV 9.61
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
तेनाभिघातरभसस्य विकृष्य पत्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख स्तं पातयां प्रथममास पपात पश्चात् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तेनेति॥ अभिघातो सभस औत्सुक्यं यस्य तस्य। अभिहन्तुमुद्यतस्येत्यर्थः। वन्यस्य वने भवस्य महिषस्य नेत्रविवरे नेत्रमध्ये तेन नृपेण विकृष्याकृष्य मुक्तः पत्री शरो विग्रहं महिषदेहं निर्भिद्य विदार्य। शोणितलिप्तो न भवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयाभवतीत्यशोणितलिप्तः पुङ्खो यस्य स तथोक्तः सन्। तं महिषं प्रथमं पातयामास। स्वयं पश्चात्पपात। `कृञ्चानुप्रयुज्यते लिटि` (पा.3।1।40)इत्यत्रानुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् `पातयां प्रथममास` इत्यपप्रयोग इति पाणिनीयाः। यथाह वार्तिककारः-`विपर्यासनिवृत्त्यर्थः व्यवहितवृत्त्यर्थं च` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 9.61. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 9.60) All Verses in Chapter 9 Next Verse (RV 9.62) →