Skip to main content
Search
Ch. 13 RV 13.78
Full Chapter
RV • Chapter 13: Canto 13

RV 13.78

Canonical Ref: RV 13.78
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
लङ्केश्वरप्रणतिभङ्गदृढव्रतं त- द्वन्द्यं युगं चरणयोर्जनकात्मजायाः । ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो- रन्योन्यपावनमभूदुभयं समेत्य ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): लङ्केश्वरप्रणतीति॥ लङ्केश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्द्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वाऽन्योन्यस्य पावनं शोधकमभूत् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 13.78. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 13.77) All Verses in Chapter 13 Next Verse (RV 13.79) →