Skip to main content
Search
Ch. 11 RV 11.92
Full Chapter
RV • Chapter 11: Canto 11

RV 11.92

Canonical Ref: RV 11.92
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातम् । तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ तस्मिन् भार्गवे गते सति विजयिनं रामं पिता स्नेहात् परिरभ्यालिङ्ग्य पुनर्जातमेवामन्यत। क्षणं शुग्यस्येति विग्रहः। क्षणशुचस्तस्य दशरथस्य परितोषलाभः संतोषप्राप्तिः। कक्षाग्निना दावानलेन। `कक्षः शुष्ककाननवीरुधोः` इति विश्वः। लङ्घितस्याभइहतस्य तरोर्वृष्टिपात इव। अभवत् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 11.92. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 11.91) All Verses in Chapter 11 Next Verse (RV 11.93) →