Skip to main content
Search
Ch. 10 RV 10.20
Full Chapter
RV • Chapter 10: Canto 10

RV 10.20

Canonical Ref: RV 10.20
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः । सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): सर्वज्ञ इति॥ त्वं सर्वं जानातीति सर्वज्ञः । `इगुपध-` (पा.3।1।135) इति कप्रक्ययः। अविज्ञातः। न केनापि विज्ञात इत्यर्थः। त्वं सर्वस्य योनिः कारणम्। त्वमात्मन एव भवतीत्यात्मभूः। न ते किंचित्कारणमस्तीत्यर्थः। त्वं सर्वस्य प्रभुः। त्वमनीशः। त्वमेकः सर्वरूपभाक्। त्वमेक एव सर्वात्मना वर्तस इत्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 10.20. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 10.19) All Verses in Chapter 10 Next Verse (RV 10.21) →