Skip to main content
Search
Full Chapter
RV • Chapter 10: Canto 10

RV 10.2

Canonical Ref: RV 10.2
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): न चेति॥ स दशरथथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम्। `एष वा अनृणो यः पुत्री` इति श्रुतेः। पितॄणामृणनिर्मुक्तिकारणम्। सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम्। अत्र`अभयंकर` इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य `अपे क्लेशतमसोः` (पा.3।2।50)इति डप्रत्ययः। सुताभिधानं सुताख्यं ज्योतिर्नोपलेमे न प्राप च ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 10.2. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 10.1) All Verses in Chapter 10 Next Verse (RV 10.3) →